________________
सिद्धान्तचन्द्रिका। [हससंधिः ] प्रत्ययसंबन्धिान अमे परे ॥ अपिशब्दाद्वर्गप्रथमानामपि ॥ कथं तर्हि रघुकाव्ये 'मदोदयाः ककुद्मन्तः' इति । उच्यते । यवादिगणे दकारस्य निपातनान्न अमो भवतीति कौमुदी ॥ कचिजबस्यापि जमो भवति 'त्वन्मदेकत्वे' इति ज्ञापकात् ॥ तत्स्वरूपमस्येति तन्मयम् । प्राचुर्यविकारप्राधान्यादिष्विति मयट् ॥ चित्प्रमाणमस्येति चिन्मात्रम् । प्रमाणे द्वयसदनमात्रटः इति मात्रट् ॥
(चपाच्छः शः) पदान्ते वर्तमानाच्चपादुत्तरस्य शकारस्य छो वा भवत्यबे परे ॥ वाक्छूरः-वाक्शूरः ॥ अबे किम् । वाक्श्च्योतति ॥
(सुबोधिनी)-चपाच्छः शः॥ चपादुत्तरः शकारः छकारो वा भवत्यवे परे ॥ चपादिति किम् । प्रशान् शेते ॥ अबे इति किम् । वाक्श्च्योतति ॥ शः किम् । वाक्साधुः॥ ननु चपाच्छः श इत्युक्ते संदेहो भवति किं शस्य छः छस्य शो वेति। लोकाच्छेषस्येति निर्देशान्न संदेह इति ॥
(तत्त्वदी०)-चपाच्छः श इति ॥ पदान्त इति किम् । विरप्शम् रपेर्विपूर्वादौणादिकशप्रत्यये रूपमेतत् इति प्राञ्चः। तच्चिन्त्यम् । विरप्शमित्यस्य छान्दसत्वलाभात् । छन्दसि दृष्टानुविधिस्वीकारात् इत्युक्तं लघुभाष्ये । तत्रेदमवधेयम् । विरप्शमित्यस्य पदान्त: प्रत्युदाहरणत्वमेवोचितं पतञ्जलिसंमतत्वात् ॥ किं च 'शश्छोऽटि' इत्यस्य हि पदान्ताज्झयः परस्य शस्य छ इत्यर्थ आकरे स्थितः । विपूर्वाद्रपेरौणादिकशप्रत्यये 'मध्वश्च्योतन्त्यभितो विरप्शम्' इत्यादौ यथेति मनोरमायामुक्तवतां दीक्षितानां मतेन विरोधात् छान्दसत्वादित्यस्यागतित्वेनोपेक्षितत्वात् ॥ चपादिति किम् । प्रशान् शेते । अबे इति किम् । वाक्श्च्योतति ॥ शः किम् । वाक्साधुः । ननु चपा इत्यनुवार्थवशाद्विभक्तिविपरिणामं कृत्वा चपादिति व्याख्याऽऽश्रीयते इति चेत् तद्युत्तरार्थ तच्च ' हो झभाः ' इत्यत्र वक्ष्यते । इहार्थं च । अत्र तन्त्रादिना वाक्यद्वयमाश्रीयते । तत्राद्य उक्तएव । द्वितीयस्तु चपमततीति चपात् चेन सहितः छः तस्य शो अमे । तेन च पाप्रश्मीत्यादौ शत्वम् विधेयस्य पूर्वनिर्देशस्त्वसेदंहार्थः। 'चपाच्छः छः ' इत्युक्ते सन्देहः स्यात् ॥
(हो झभाः) चपादुत्तरस्य हकारस्य शभा वा भवंति ॥ यदर्गगश्चपस्तद्वर्गगश्चतुर्थो भवति । तद्धविः-तद् हविः । वाग्धरिः वाम्हरिः॥
( सुबोधिनी)-हो झमाः॥ 'चपाच्छः शः' इत्यतश्चपादित्यनुवर्तते । चपापरस्य हस्य स्थाने झभाः स्युर्वा ॥ निमित्तादेशयोश्चपझभयोः समसंख्ययोर्यथाक्रमं वक्ति । यद्वर्गगश्चपस्तद्वर्गगश्चतुर्थों भवतीति ॥ चात्परस्य हस्य झः। टात्परस्य हस्य ढः । तात्परस्य हस्य धः । कात्परस्य हस्य घः । पात्परस्य हस्य भः इति । चपादिति किम् । भगवन् हरे ॥ हस्येति किम् । तत् षष्ठम् ॥ वाग्धरिः। वर्गचतुर्थाभावे वाग्हरिः। उभयत्र जबत्वम् ॥