________________
[प्रकृतिभावः ] टीकाद्वयोपेता।
(सुबोधिनी )-पदान्तानां समानानामृति लति च वा हस्वः ॥ पदान्ते स्थितानांसमानानां प्रकृतिभावो हस्वश्च वा भवति ऋकारे च लकारे परे ॥ होतृलकारः ब्रह्मा ऋषिरित्यादौ प्रकृतिभावार्थमिदम् । वृणां तु पूर्वेणैव प्रकृतिभावः सिद्धयति । समासेऽप्ययं प्रकृतिभावोऽस्ति । तेन सप्तऋषीणामिति । प्रकृतिभावे ब्रह्मा ऋषिः। ह्रस्वे ब्रह्मऋषिः। संधौ ब्रह्मर्षिः॥ पदान्ते किम् । आऋच्छदित्यत्र आ इत्यस्य ह्रस्वो न । ऋकारे परेऽपि पदान्तत्वाभावात्। ऋच्छ गत्यादावित्यस्य लङि तुदादेरित्यप्रत्यये दिवादावडिति स्वरादेरिति चाडागमयोः कृतयो रूपम् ॥
(ञयादुञो वो वा स्वरे )किम्बुक्तम्-किमु उक्तम् ॥ (सुबोधिनी)-अयादुञो वो वा स्वरे ॥ जयात्परस्य उनिपातस्य वो वा स्यात्स्वरे परे ॥ किमु उक्तम् । वत्वपक्षे किम्वुक्तम् । वस्यासिद्धत्वान्नानुस्वारोऽत्र ॥ __ (तत्त्वदी० )-अयादुञ इति ॥ किम्वुक्तमिति ॥ वत्वस्यासिद्धत्वान्नानुस्वारः। ओदन्तो निपात इत्यारभ्यैतत्पर्यन्तं वेत्यस्य व्यवस्थितस्यानुवृत्तेर्लभ्यत इति बोध्यम् ॥
(दूरादाबाने टः प्लुतः) दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतो वा ॥ प्लुतः संधि न पामोति । एहि देवदत्त ३ अत्राधीष्व ॥
(सुबोधिनी)-दूरादाबाने टेःप्लुतः॥ दूरत्वमिहाद्वानापेक्षं बोध्यते न देशापेक्ष पुरुषापेक्षं च गृह्यते।आह्वाने इति संबोधनमात्रोपलक्षणम् । तेनाह्वानादन्यत्रापि भवति सक्तन्पिच देवदत्त ३ इति । आह्वाने इत्याधारे सप्तमी । आधारश्चाधेयमपेक्षते । आधेयं च वाक्यमेव । तेनैवाह्वानसंभवात्। संबोधने वाक्यस्य टेः प्लुतः वा स्यादित्यर्थः। ह्रस्वदीर्घव्यक्त्योरुच्चारणात्स्वरूपलिखनाच भानं प्लुतव्यक्तेरुच्चारणादेव ॥
(तत्त्वदी० )-दूरादाबान इति ॥ दूरत्वमिहाह्वानापेक्षं न तु देशापेक्षं पुरुषापेक्ष वा वाक्यस्य टेरिति ।। वाक्यं च सामर्थ्याल्लभ्यते । आह्वाने इत्याधारे सप्तमी । आधारश्चाधेयमपेक्षते । आधेयं च वाक्यमेव । तेनैवाह्वानसंभवात् इति नव्याः । संबोधनमात्रोपलक्षकम् । इत्यभिप्रेत्याह ॥ दृरात्संबोधन इति ॥
(हैहेप्रयोगे हैहयोःप्लुतोवा) है अम्ब-हायम्ब । हे ईश-हयीश ॥ (सुबोधिनी ) हैहेप्रयोगे हेहयोः प्लुतो वा ॥ हैहेप्रयोगे दूरात्संबोधने यद्वाक्यं तत्र हैहयोरेव प्लुतो वा स्यात् ॥ प्लुताभावे आय । हायम्ब । हयीशेत्यत्र अय्॥ (सप्तम्यर्थ ईत् संधिं न याति) वातप्रमी आस्ते। ययी इदम् । पपी एषः॥
(सुबोधिनी)-सप्तम्यर्थे ईत्संधि न याति ॥ सप्तम्यर्थे संसिद्धमीकारान्तं पदं संधि न प्रामोति ॥ अर्थग्रहणात्समासे मा भूत् । वाप्यामश्वो वाप्यश्व इत्यत्र वापीशब्दो वाप्यविकरणकद्रव्ये उपसंक्रान्तो न तु सप्तम्यर्थे । वातप्रमीययीपपीशब्दा औणादिकेकारान्ताः सन्ति तेषां सप्तम्येकवचने सवर्णे दीर्ध रूपम् ॥