________________
[ स्वरान्तस्त्रीलिङ्गाः ] टीकाद्वयोपेता। (१०३) ग्रहणे वाऽऽप इत्यादावाकारप्रश्लेष एव लिङ्गम् । किंच केवलस्यापः प्रत्ययत्वेन तत्परविभक्तेरभावात्तत्कार्यासंभव इति दिक् ॥
(दिक्समासे बहुव्रीही सर्वादेर्वा सर्वकार्यम्) दक्षिणपूर्वस्यै-दक्षिणपूर्वायै । उत्तरपूर्वस्याः-उत्तरपूर्वायाः ॥ अन्तरस्यै शालायै बाह्याय इत्यर्थः ॥ अपुरीत्युक्तेर्नेह । अन्तरायै नगएँ । द्वितीयस्यै-द्वितीयायै । तृतीयस्यै-तृतीयायै । नासिका, नासिके, नासिकाः। नासिकाम्,नासिके । नासिकायाः नस् । नसा-नासिकाः । नसा-नासिकया । नोभ्याम्-नासिकाभ्याम् ।। पक्षे पञ्चसु गङ्गावत् ॥ पृतनायाः पृत् । पृतः । पृता । पृद्भयाम् ॥ निशायाः निश् । निशः । निशा॥
(सुबोधिनी )-दिक्समासे बहुव्रीही सर्वादेर्वा सर्वकार्यम् ॥ गौणत्वादप्राप्त विभाषेयम् । दिशां समासो दिकसमासस्तस्मिन् । बहुव्रीही सर्वादेः सर्वादिकार्य वा वाच्यम् ॥ दक्षिणस्याः पूर्वस्याश्च अन्तराले मध्ये या दिक् सा दक्षिणपूर्वा । तस्यै ॥ उत्तरस्याः पूर्वस्याश्च अन्तराले या दिक् सा उत्तरपूर्वा तस्याः ॥ अन्यपदाथोऽपि दिकशब्दवाच्य एव ग्राह्यस्तेन नेह । योत्तरा सा पूर्वा यस्या उन्मत्तायाः सा उत्तरपूर्वा । तस्यै उत्तरपूर्वायै ॥ अन्तरोऽपुरि परिधाने बहियोगे इत्युक्तत्वादन्तरशब्दस्य बहिर) सर्वकार्यम् । अन्तरस्यै शालायै । नगरवाह्यायै इत्यर्थः। अन्तरस्य न पुरि सर्वकार्यम् । अन्तरायै । न सुटू ॥ द्वितीयातृतीययोस्तीयस्य ङित्सु वा सर्ववादत्युक्तत्वात् डेङसिङडिषु वा सर्ववत् । शेषं गङ्गावद्रूपम्॥ पाददन्तेति नासिकाशब्दस्य शसादौ नम् । सस्य विसर्गे हवे इत्युत्वे ओत्वे च नोभ्याम् ॥ पृतना सेना॥
(तत्त्वदी० )-दिकसमासे इति ॥ दिशां दिग्वाचकानां शब्दानां समास इत्यर्थः । एतन्मूलं तु यटोऽच्चेत्यत्र चेत्यनुवृत्तेर्व्यवस्थित्याश्रयणम् ॥
(छशषराजादेःषः) छकारान्तस्य शकारान्तस्य षकारान्तस्य राजयज्मृज्मृजनस्जवश्वनाजां च षकारो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥
(सुबोधिनी )-छशषराजादेः षः॥ छान्तस्य शान्तस्य षान्तस्य राजादेश्व नाम्नः षः स्यात् रसे पदान्ते च । छान्तस्य शान्तस्य षान्तस्य राजादेव धातोः षः स्यात् झसे पदान्ते च ॥ छान्तस्य नाम्नो यथा । तत्त्वप्राट्-तत्त्वप्राड् । भजां विणितिविण्प्रत्यये अकृतव्यूहपरिभाषया द्वित्वं न प्रवर्तेत । ततोऽसिद्धपरिभाषया न वृद्धिः। वृद्धेविणनिमित्तत्वेन षत्वं प्रति बाहिरङ्गत्वात् ॥ धातोश्च यथा । प्रष्टा । अपाप्रट् ॥