________________
(१०२) सिद्धान्तचन्द्रिका। [स्वरान्तस्त्रीलिंगाः] नुट स्यादिति चेन्न । परत्वात डिन्तामिति यटा बाधनात् ॥ ननु डितां यडागमो विधीयते आमादेशस्तु न डिदिति कथं तस्य यडिति चेन्न । आदेशः स्थानिकार्य लभते इति स्वीकारात् । अत्र क्रियायामिति निर्देशो मानम् ॥ श्रद्धा प्रतीतिः । मेधा बुद्धिः। दुर्गा पार्वती ॥
(तत्त्वदी०)-आम्डेरिति । अत्र डेरिति सप्तम्येकवचनम् । न तु चतुर्येकवचनं व्या. ख्यानात् । अत्रार्थे क्रियायामित्यादिनिर्देशोऽप्यनुकूलः ॥ ननु गङ्गाया मत्यादौ नुडाम इति नुडस्तु इति चेत् न परत्वाघटा बाधात् । न चामि कृते ङित्त्वाभावाद्यडेव कथमिति वाच्यम्। आदेशः स्थानिकार्य लभत इत्यभ्युपगमात् । अत्रापि क्रियायामिति निर्देशो मानम् ॥
(अम्बार्थानां द्विस्वराणां धौ ह्रस्वः) हे अम्ब । हे अक्क । हे अल्ल । शेषं गङ्गावत् । द्विस्वराणामिति किम्। हे अम्बाडे । हे अम्बाले । हे अम्बिके ॥
(सुबोधिनी)-अम्बार्थानां द्विस्वराणां धौ द्वस्वः ॥ अम्बार्थानां द्विस्वराणां ह्रस्वः स्याद्धौ परे ॥ 'अम्बा माताऽथ बाला स्यात्' इत्यमरः ॥
(तत्त्वदी०)-अम्बार्थानामिति ॥ एतन्मूलं तु यटोऽच्चेत्यतोऽनुक्तसमुच्चयार्थचकारानुवृत्तिस्ततोऽस्यार्थस्य संग्रह इति वृद्धाः॥
(यटोऽच्च) सर्वादेः परस्य यटः सुडागमो भवति पूर्वस्य चापोऽकारः॥ सर्वस्यै । सर्वस्याः । सर्वस्याः, सर्वयोः, सर्वासाम् । सर्वस्याम् । एवं विश्वादयोऽप्याबन्ताः ॥ जरा, जरसौ-जरे, जरसः- जराः॥
(सुबोधिनी)-पटोऽच्च ॥ आप इत्यनुवर्तते । आबन्तसर्वादेर्यडागमस्य सुट् स्यात् आपः स्थानेऽच्च ॥ सर्वोदेः किम् । गङ्गाय ॥ यटः किम् । सर्वोभ्याम् ॥ जष् वयोहानावित्यस्मात् 'षिद्भिदामङ्' इत्याङि 'ऋतोऽङि गुणः' इति गुणे कृते आप।जरा। जरायाः स्वरादी जरसिति स्वरादिविभक्तो जरस् । औं परतः औ इतीत्वं न नित्यवाज्जरस् । जरसौ। आमि तु जरसामिति । जराया इति वचनसामर्थ्यात् ॥ पक्षे हसादौ च गङ्गावत् ॥
(तत्त्वदी.)-यटोऽच्चेति ॥ यटः अत् चेति छेदः ॥ अत्राहुः । ननु यटः सर्वादेः परत्वं नास्ति आपा व्यवधानात् इति चेत्सत्यम् । वचनसामर्थ्यात्तेन व्यवधानं सह्यते । आपं विना हि यट एव दुर्लभत्वात् । अड्विधावपि सर्वादेरिति पञ्चमीति पक्षे सवर्णदीर्धे कृते एकदेशविकृतन्यायेन सर्वादेः परस्य विधीयमानो यडाप एव भवतिः अन्यस्यासंभवात् । षष्ठीपक्ष एकदेशविकृतन्यायेन सर्वादेरकारो भवति ऊनाधिकभावेन विकारस्य द्वैविध्यादिति । अत्रेदमवधेयम् । अत्राबन्तात्सर्वादेरिति व्याख्याने आपो व्यवधायकत्वाभावेन तद्ध्यवधानशङ्का निर्मूलैव तदन्त