________________
[ विभक्त्यर्थाः] टीकाद्वयोपेता।
( २०९) कर्मादयस्तु विभक्त्या इति । आदितो द्विकं प्रातिपदिकार्थ इत्यन्ये । लिंगमात्रादि वाच्यामित्युक्तस्यात् । तत्र स्वार्थों विशेषणं द्रव्यं विशेष्यं द्रव्यगुणक्रियासन्निधाने द्रव्यवाचकस्यैव प्राधान्यमित्युक्तत्वात् । लिंगं स्त्रीत्वादि । संख्या एकत्वादि कारकं कर्मादि ॥
(तत्त्वदी० )-लिङ्गार्थे प्रथमेति ॥ लिङ्गं च अर्थश्च लिङ्गार्थ तस्मिन् लिङ्गार्थे । लिङ्गे अर्थे च प्रथमेत्यर्थः । कस्यार्थे इत्याकाङ्क्षायां यस्मात्स्यादिभिक्तिस्तस्यार्थे । स्यादयश्च नाम्नो विधीयन्ते अतो नामाथें इति लब्धमेव ॥ नामार्थमाह । नियतोपस्थितिक इति॥ नियता उपस्थितिर्यस्य सः । यस्मान्नाम्नो योऽर्थों नियमेन भासते स तस्यार्थः । नियतत्वलाभवामन्त्रण इति सूत्रारम्भात् । नामार्थ एव द्विविधः तं दर्शयति-अलिङ्गा इत्यादि ॥ नालिङ्गा संख्या इत्यर्थः । प्रथमे उदाहरणमव्ययम् । द्वितीय उदाहरणं कृष्ण इत्यादि । यद्यपि नीलरूपवत्परोऽयमनियतलिङ्गस्तथापि वासुदेवे भगवति नियतालेङ्ग एवेति भावात् । कृष्णादौ लिङ्गमेव नामार्थस्तस्य नियमेन भानात् । तदादौ तु लिङ्ग नामार्थव्यतिरेकेणास्तीति लिङ्गमात्राधिक्ये नामार्थे प्रथमाविधानात् । कारकसंबन्धयोस्तु नाम्नो नियतभानाभावान्न तयोराधिक्ये प्रथमा । यदि त्वर्थशब्दो वृत्तिपरः वृत्तिस्तु शक्तिलक्षणा च गौणी तु लक्षणान्तर्भूता पृथग्वा ऽस्तु त्रिकं च नामार्थ इत्याश्रीयते । तदा लिङ्गे इत्यपि माऽस्तु लक्ष्याणां विचित्रत्वेऽपि न क्षतिः नियमांशत्यागात् । शक्यं लक्ष्यं गौणं च पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं च लक्ष्यमिति वैचिव्यम् । शक्य एवेति नियमस्य पुंस्त्वादिना लिङ्गस्य वाच्यतति नियमस्य च त्यागात् । लिङ्गत्वेनैव लिङ्गस्य वाच्यताभ्युपगमात् । खारीत्यादिपरिमाणमपि नामार्थ एव नियमेन लाभात् । एक इत्यादिसंख्यायास्तु नाम्नो वाभिधानात्तदभिधायिका प्रथमा न इति चेत्सत्यं न केवला प्रकृतिः प्रयोक्तव्येति नियमात् । अन्य प्रयोगेऽप्येषोऽन्वयः स्यादिति अनुवादकप्रयोगस्यैव न्याय्यत्वात् ॥ ननु कृष्ण इत्यादावस्तीत्यध्याहारेणान्योक्ते प्रथमेत्यनेनैव सिद्धे किमेतेनेति चेत्सत्यम् । अध्याहारे गौरवात् । शुक्लोऽयं न पीत इत्यादौ सविशेषणवाक्येऽध्याहारस्यानावश्यकत्वाच्च ॥ ननु तस्मात्सिऔजसिति सूत्रेणैव विभक्तिविधानाकि कारकप्रकरणेनेति चेत्सत्यम् । सिद्धे सत्यारम्भो नियमार्थः । स च द्विविधः । विभक्तिनियमोऽर्थनियमश्च । आये नामार्थ एव प्रथमा। कार्य एव द्वितीया । करण एव तृतीयेत्यादि । अत्र पक्षेऽव्ययेभ्यो न प्राप्तिः। द्वितीये तु नामार्थे प्रथमैव । कार्ये द्वितीयैवेत्यादि । अत्र पक्षेऽव्ययेभ्योऽपि भवन्ति ॥
(आमन्त्रणे च ) अभिमुखीकरणे प्रथमा ॥ हे देव, हे देवो, हे देवाः॥ ( सुबोधिनी)-आमन्त्रणे च ॥ संबोधनाधिक्ये प्राप्तौ वचनम् । आमन्त्र्यते प्रसन्नः क्रियत अनेनेति करणे युट्र । अनभिमुखोऽभिमुखः क्रियते अननेत्यभिमुखीकरणमनुकूलकरणम् । तत्र प्रथमा भवति। 'देव मां पाहि' इति वाक्ये देवसंवन्धिसंबोधन•