________________
( २०८) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] नियतलिंगाश्च नामार्थमात्र इत्यस्योदाहरणम् । अनियतलिंगास्तु लिंगमात्राधिक्य इत्यस्य । तटः । तटी । तटम् ॥
(सुबोधिनी)-अथ कारकप्रकरणम् । स्यादयः प्रत्यया नाम्ना विहितास्तेषामर्थविशेष व्यवस्थां दर्शयितुमारभते ॥ लिंगार्थे प्रथमा । लिंगं च अर्थश्चानयोः समाहारो लिंगार्थम् । तस्मिन् लिंगार्थे । अर्थे प्रथमेत्युक्तौ कस्याथै इत्याकाङ्क्षायां यस्मानाम्नः स्यादिविभक्तिर्विहिता तस्य नाम्नोऽर्थे एवेति नामार्थमात्रम् । “ मात्रं कात्स्न्येऽवधारणे" इत्यमरः । तत्र प्रथमा विभक्तिर्भवति । स को नामार्थः । नियतोपस्थितिकः । नियतोपस्थितिर्यस्य स नियतोपस्थितिकः । यस्मिन् नाम्नि उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स नियतोपस्थितिको नामार्थ एव शक्य इत्युच्यते । अनियतलिंगग्रहणार्थ लिंगेति । लिंगे लिंगमात्राधिक्येऽपि प्रथमा । यद्यपि लिंग. मात्र इत्येवाक्षरार्थस्तथापि नामार्थं विना लिंगादिप्रतीतेरसंभवादाधिक्ये इत्युक्तम् । प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः। ननु सिंहो माणवक इत्यादौ प्रथमा न स्यात् । उच्यते । शक्यार्थमादाय प्रथमाविभक्तरुत्पत्तौ सत्यां पश्चात्पदान्तरसमभिहारो लक्ष्यार्थबोधकोऽस्तीति ॥ ननु वीरः पुरुष इत्यादौ प्रथमा न स्यात् । वीराभिन्नः पुरुष इत्यभेदसंसर्गस्याधिकस्य भानात् । उच्यते । अत्र पदसंस्कारपक्षाभ्युपगमोऽस्ति । ततोऽन्तरंगत्वात् प्रथमप्रवृत्तपदसंस्कारेण प्रथमारूपे कृते पश्चाबहिरंगत्वात् अभेदसंसर्गों वाक्यार्थः कर्तव्य इति । नास्ति लिंगं येषां ते अलिंगाः । नियतं निश्चितं लिंगं येषां ते नियतलिंगा इति । उभयेषां नामार्थमात्रे उदाहरणं यथा । उच्चैरिह पदत्वाद्विसर्गसिद्धिः । किंचास्य प्रथमान्तत्वात् संग्राम उच्चैस्तव संग्राम उच्चैस्ते इति विद्यमानपूर्वादिति सूत्रेण तेमे आदेशयोविकल्पसिद्धिरपि फलम् । कृष्णः । अयं नीलद्रव्येऽनियतलिंगस्तथापि वासुदेवे नियतलिंगः। ज्ञायते तत् ज्ञानम् । भावे युटू । खारी द्रोण आढकमित्यत्रापि नामाथै एव प्रथमा । परिमाणार्थस्य नियतज्ञानात् । द्रोणो व्रीहिरित्यत्र तु द्रोणपरिच्छिन्नाभिन्नो व्रीहिरित्यभेदान्वयः । नामार्थयोरभेदान्वयस्य व्युत्पन्नत्वात् ॥ ननु एको द्वौ बहव इत्यत्र नाम्नैव संख्याया आभिधानात् प्रथमा न स्यात् । उच्यते। न केवला प्रकृतिः प्रयो. क्तव्या नापि केवलः प्रत्यय इति नियमात् प्रथमोत्पत्तिर्बोध्या। अनियतं लिंगं येषांते अनियतलिंगास्तेषामनियतलिंगमेवेति लिंगमात्रम् । अधिकस्य भाव आधिक्यं लिंगमात्रस्य आधिक्यं लिंगमात्राधिक्यं तस्मिन् । उदाहरणं बोध्यम् । किंच भाष्यकारमते पञ्चकः प्रातिपादिकार्थ स्वार्थद्रव्यलिंगसंख्याकारकाणि इति । यथा दधि मध्वित्यादौ विनापि विभक्तिं प्रातिपदिकादेव तावतामर्थानां प्रतीतेः । कैयटमते आदितश्चतुष्कं प्राप्तिपदिकार्थः । वृत्तिकारमते आदितस्त्रिकं प्रातिपदिकार्थः । संख्या