________________
[ विभक्त्यर्थाः ]
टीकाद्वयोपेता ।
( २०७ )
(तत्त्वदी ० ) - शफोरूरिति ॥ शफौ खुरौ ताविष । संश्लिष्टत्वादुपचारः । यद्यपि " शफँ ल्कीबे खुरः पुमान्" इत्यमरस्तथापि शफशब्दस्य पुंस्त्वमपि बहुसंमतम् । “शफः खुरे गवादीनां मूले विटपिनामपि " इति हेमचन्द्रकोशाच्च ॥
(नृनरयोर्वृद्धिश्च ) नारी ॥
( सुबोधिनी ) - नृनरयोर्वृद्धिश्व ॥ नृशब्दात् त्रण वीत ईपि प्राप्ते नरशब्दात् जातिलक्षणे ईपि प्राप्ते वृद्धयर्थं वचनम् ॥ नुर्नरस्य वा स्त्री नारी ॥
( तत्त्वदी० ) - नरयोरिति ॥ नृशब्दात् त्रण ईवित्यनेन । नरशब्दात्तु जातिलक्षण एव ॥ ननु नरशब्देऽन्त्याकारस्य षष्ठीनिर्दिष्टत्वात् वृद्धिरस्त्विति न वाच्यम् । न चान्त्यवृद्धिविफला लोपं बाधित्वा प्रवृत्तेः । उच्यते । नरस्य अः नरः हलादित्वाट्टेर्लोपः । ना च नरश्ध नरौ तयोरित्यर्थः । प्रश्लेषसामर्थ्यान्नान्त्याकारो गृह्यते ॥
( यूनस्तिः ) युवन्शब्दात् स्त्रियां तिः ॥ युवतिः ॥ इति स्त्रीप्रत्ययाः ॥
( सुबोधिनी ) - यूनस्तिः ॥ त्रण ईवित्यस्यापवादः । नाम्नो न इति सूत्रे केचित् स्यादौ से इत्यनुवर्तयन्ति तन्मते युवन्शब्दात्तिप्रत्यये नलोपः कथं स्यात् । स्यादीनां रसस्य परत्वाभावात् । उच्यते । तू इः इति च्छेदः कर्तव्यः । युवन्शब्दात्स्त्रियामिप्रत्ययो यूनोऽन्त्यस्य तादेशश्चेति । कथं तर्हि "युवतीकरनिर्मथितम्” इति प्रयोगः ॥ यौति मिश्रीकरोति पत्या सहेति यौतेः शत्रन्तात् ष्ट्रत्रित इति ईपि कृते बोध्यः । अत्रापि अनुपसर्जनादिति वक्तव्यम् । गौणे तु बहवो युवानो यस्यां बहुयुवा पूः । स्त्रीप्रत्ययान्तेभ्यः शब्देभ्यः प्रातिपदिकग्रहणे लिंगविशिष्टस्यापि ग्रहणमिति परिभाषया स्याद्युत्पत्तिर्बोध्या ॥ इति सुबोधिन्यां स्त्रीप्रत्ययाः ॥
( तत्त्वदी ० ) - यूनास्तिरिति ॥ वसां रस इत्यतो रसे इत्यनुवृत्तेरस्यादावपि रसे नलोपः । यद्वात् इः इति च्छित्त्वा युवन्शब्दस्य तादेश इश्व प्रत्ययः स्त्रियामित्यर्थो वाच्यः । युवतीति यतेः शत्रन्तादीपि बोध्यम् ॥
श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायां स्त्रीप्रत्ययविचारणम् ॥ इति तत्त्वदीपिकायां स्त्रीप्रत्ययाः ॥
अथ विभक्त्यर्थाः ।
( लिङ्गार्थे प्रथमा ) नामार्थमात्र लिंगमात्राधिक्ये च प्रथमा विभ क्तिः ॥ नियतोपस्थितिको नामार्थः । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । द्रोणः । खारी । आढकम् । एकः । द्वौ । बहवः || अलिंगा