________________
(२०६) सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः ] वाच्यम् । ऊडुत इति सूत्रविवरणे उदन्तान्मनुष्यजातिवाचिन इति दीक्षितादिभिः सर्वैरेवोक्तत्वात् ॥
(पङ्गोश्च ) पङ्गः ॥ (सुबोधिनी)-पङ्गोश्च ॥ पङ्गुशब्दो गुणवाची तस्मात् स्त्रियामूः स्यात् ॥ (श्वशुरस्योकाराकारलोप ऊश्च ) श्वश्रूः ॥ (सुबोधिनी )-श्वशुरस्योकाराकारलोप ऊश्च ॥ श्वशुरशब्दात् स्त्रियामः स्यात् उकाराकारयोर्लोपश्च ॥ संनिहितत्वादन्तस्यैवालोपो न त्वादेः । पुंयोगे चेतीपो निवारणार्थमिदम् ॥
(तत्त्वदी० )-श्वशुरस्येत्यादि ॥ एतन्मूलं तु दीर्घकरणमेवान्यथा उदन्तत्वात्सवर्णदीर्घेणापि सिद्धेरूकरणं वृथा स्यात् । पुंयोगलक्षण ईपि प्राप्ते ऊ । तत्संयोगेन च विधीयमानोऽलोपः सन्निहितत्वादन्तस्यैवाकारस्य न त्वादेः ॥
( उरूत्तरपदादौपम्ये ) उपमानवाचिपूर्वपदादूरुत्तरपदादूः ॥ करभोरूः ॥
(सुबोधिनी )-उरूत्तरपदादौपम्ये ॥ उपमानवाचिपूर्वपदादूरूत्तरपदादः ॥ उपमीयतेऽनेन तदुपमानम् अधिकगुणविशिष्टमित्यर्थः ॥ करभवत् ऊरू यस्याः सा करभोरूः । “मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः।
(तत्त्वदी० )-उपमानवाचिपूर्वपदादिति ॥ "धात्रीकराभ्यां करभोपमोरुः" इत्यत्र तु न । करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाभावात् ॥ __ (संहितशफलक्षणवामसहितसहादेरनौपम्येऽपि) संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः । सहितोरूः । सहोरूः ॥
(सुबोधिनी )-संहितशफलक्षणवामसहितसहादेरनौपम्येपि ॥ संहितादिपूर्वपदादूरूत्तरपदानाम्नः स्त्रियामूः स्यात् ॥ उपमीयते अनयेत्युपमा तस्या भाव
औपम्यं न औपम्यम् अनौपम्यं तस्मिन् । संहिता मिलितौ ऊरू यस्याः सा संहितोरूः ॥ शफाविव ऊरू यस्याः सा शफोरूः । “शर्फ क्लीवे खुरः पुमान्" इत्यमरेण क्लीवत्वमुक्तं तथापि कोशान्तरे पुंस्त्वम् ॥ "शफः खुरे गवादीनां मूले विटपिनामपि" इति हेमचन्द्रः ॥ लक्षणमस्त्यस्मिन् स लक्षणः । अस्त्यर्थे अप्रत्ययः । लक्षणौ उरू यस्याः सा लक्षणोरूः ॥ वामौ सुन्दरौ उरू यस्याः सा वामोरूः ॥ हितेन सह सहितौ सहितौ उरू यस्याः सा सहितोरूः ॥ सहेते इति सहौ । सही उरू यस्याः सा सहोरूः॥