________________
[ स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
(२०५) (कचिद्वा) दृढपत्नी-दृढपतिः । वृषलपत्नी-वृषलपतिः । एताएनी । हरिता-हरिणी। रोहिता-रोहिणी । श्येता-श्येनी । असिता-असिनी । पलिता-पलिनी । इत्यादि ॥
(सुबोधिनी )-क्वचिद्वा ॥ क्वचिद्वा निपातनं भवति ॥ दृढः पतिर्यस्याः सा दृढपत्नी-दृढपतिः ॥ वृषलः शूद्रः पतिर्यस्याः सा वृषलपत्नी-वृषलपतिः ॥ एतशब्दात् स्त्रियामीप तकारस्य नकारादेशश्च वा निपात्यते । एता-एनी । कर्बुरेत्यर्थः। "चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे” इत्यमरः ॥ हरिता-हरिणी । हरिद्वर्णेत्यर्थः ॥ रोहिता-रोहिणी । रक्तेत्यर्थः॥ श्येता-श्येनी। श्वेतेत्यर्थः ॥ असितपलिवशब्दयोरीप् तकारस्य कादशश्च वा निपात्यते । असिता-असिनी । कृष्णेत्यर्थः । पलिता-पलिक्नी । वृद्धेत्यर्थः ॥ (तत्त्वदी०)-क्वचिद्वेति ॥ पुंयोगे इत्यतश्चकारानुवृत्तेरिति भावः ॥
(इतो मनुष्यजातेरीपू ) दाक्षी । अवन्ती । कुन्ती ॥ (सुबोधिनी )-इतो मनुष्यजातरीप् ॥ मनुष्यजातिवाचिन इकारान्तात् स्त्रियामीप् स्यात् ॥ दक्षस्यापत्यं दाक्षिः।अत इजितीञ् । अत्र गोत्रलक्षणा जातिः॥ अवन्तेरपत्यं । स्त्री । कुन्तेरपत्यं स्त्री। स्त्रियामवन्तिकुन्तीत्यपत्यप्रत्ययस्य लुक् । अत्रापि गोत्रलक्षणा जातिः॥
(उत ऊः) उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूः प्रत्ययः । कुरूः॥ अयोपधात्किम् । अध्वर्युः स्त्री ॥
(सुबोधिनी )-उत ऊः ॥ कुरोरपत्यं स्त्री कुरूः। स्त्रियामवन्तिकुन्तिकुर्वित्यपत्यप्रत्ययस्य लुक्। अत्रापि गोत्रलक्षणा जातिः॥ अयोपधात्किम्। अध्वर्युर्ब्राह्मणी । शाखाध्येत्री शाखाध्यायिवंशोद्भवा वेत्यर्थः ॥ अत्र चरणलक्षणा जातिः ॥ अध्वरं यातीति विग्रहे मृगय्वादयश्चेत्यौणादिकेन सूत्रेण याधातोः कुप्रत्यये अध्वरशब्दस्यान्त्यलोपश्च ।
(तत्त्वदी०)-उत ऊरिति ॥ अत्राहुः । ओरित्यनुवर्तमाने उत इति किमर्थम् । न च वाच्यमूदन्तान्मा भूदिति वधूरित्यादौ सत्यसति विशेषाभावादतस्तदनुवृत्तौ तत्संवद्धस्य गुणशब्दस्याप्यनुवृत्तिः स्यादिति पुनरुक्तमिति माधवस्तन्न खलप्वं यवत्वमिति विशेषसत्त्वात् । अत्रेदमवधेयम् । मनुष्यजातिवाचिन उदन्तादप्रत्ययस्य विधानेन खलप्वादिशब्दानां क्रियावाचकत्वेन जातिवाचिस्वाभावादेवाप्राप्तौ विशेषस्यासंभवात् । अथात्र मनुष्यजातिर्न विवक्षितति न