________________
[ स्वरान्त पुंल्लिङ्गाः] टीकाद्वयोपेता।
(८९) स्वरादिविभक्तौ परतः सर्वत्र प्रधीवत् ॥ बवयः श्रेयस्यो यस्य स बहुश्रेयसी पुरुषः। पुंवदेतीपो निवृत्तिः। अतिशयेन प्रशस्य इति ईयसुप्रत्यये प्रशस्यशब्दस्य श्रादेशः। वित इतीप् । अन्यार्थे इति ह्रस्वस्तु न ईयसुप्रत्ययान्तस्य बहुव्रीहौ नेति निषेधात्॥
(तत्त्वदी०)-बहुष्वकार इति ॥ तथा च एकत्वद्वित्वयोरिदं न औडुलोमिशब्दः । बहुत्वे त्वकारान्तो भिन्न उडुलोमशब्दः । इकारान्तस्य बहुत्वेऽदन्तमिति न भ्रमितव्यमिति भावः ॥ ययीपप्यादय इति ॥ यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः ।
औणादिकौ ॥ क्विबन्तेत्यादि । तथा च वातं प्रमिमीते इति वातप्रमीरिति क्विबन्तत्वे धातुत्वानपायेन य्वौ वेति य इति भावः । औणादिकस्य तु धातुत्वाभावात् य्वौ वेत्यस्याप्रवृत्तावपि अम्शसोरित्यस्य प्रवृत्तिः । ङौ तु सवर्णे दीर्घः सहेत्यस्येति रूपभेदः ॥ बहुश्रेयसीति ॥ समासाश्रितविधेरनित्यत्वान्न कः ईयसोर्नेति निषेधान्न ह्रस्वः ॥
(ईदूदन्तस्येयुस्थानभिन्नस्य ख्याख्यस्योपसर्जनत्वेऽपि स्त्रीकार्य वक्तव्यम् )
(सुबोधिनी)-ईदूदन्तस्येवस्थानभिन्नस्य ख्याख्यस्योपसर्जनत्वेऽपिस्त्रीकार्य वक्तव्यम् ॥ स्त्रियमाचष्टे इति स्याख्यः।चसिङो मूलविभुजादित्वात्कप्रत्यये ख्याञादेशे चातोऽनपीत्यालोपो रूपम् ॥ स्त्रियामिति वक्तव्ये आख्यग्रहणं नित्यस्त्रीस्खलाभार्थम् । तेन वृत्तेः प्राक् स्याख्यस्य नित्यस्त्रीलिङ्गस्य ईकारोकारान्तस्य नाम्नो गौणेऽपि स्त्रीलिङ्गकार्य भवति ॥ स्याख्यस्योत किम् । ग्रामण्ये ॥
(तत्त्वदी० )-रुयाख्यस्येति ॥ स्त्रियमाख्यातीति स तस्य पूर्व स्त्रीत्ववाचकस्येत्यर्थः । इयुव्स्थानभिन्नस्य किम् । अतिश्रिये ॥
(हसेपः सेलोपः ) हसान्तादीबन्ताच्च परस्य सेर्लोपो भवति ॥ बहुश्रेयसी, बहुश्रेयस्यौ ॥
(सुबोधिनी)-हसेपः सेर्लोपः ॥ हसान्तादीवन्ताच्च नाम्नः सेलोपो भवति । हसश्च ईप् चानयोः समाहारो हसेप तस्मात् ॥ ननु कौशाम्ब्या निष्क्रान्त इति निष्कौशाम्पिरित्यत्रातिव्याप्तिः स्यात् । 'अन्यार्थ' इति ह्रस्वे कृते एकदेशविकृतस्यानन्यत्वात् । उच्यते । ई ईप् इति प्रश्लिष्य दीर्घस्यैवेपो ग्रहणात् ईकाररूपादीपः सेर्लोप इति । ह्रस्वे कृते स्वीचन्तत्वेऽपीकारान्तत्वं नास्तीति ॥ सोरिति किम् । मरुतौ ॥ हसान्तात्प्रयमं सिलोपे पश्चात्कार्यान्तरं भवति । इतोऽदित्यनेनात्वे उपधादीचे नलोपशि स्रोविसर्गे च कृते पन्याः इति सिद्धम् । आ सावित्याकारविधानेन प्रथमं सिलोफ्स्य ज्ञापनात् ॥
(तत्त्वदी०)-हसेपासेर्लोप इति॥हसश्च ईप् च एतयोः समाहारः हसेप तस्मात् हसेपः ॥ ननु हसग्रहणं किमर्थ हसान्तासंयोगान्तलोपे रूपसिद्धेरिति चेन्न वेधा इत्यत्र परत्वादपवादत्वाद्वा