________________
[ समासप्र० ]
टीकाद्वयोपेता। (२८३) (सुबोधिनी )-ब्रितः परस्य वा ॥ उश्च आ च तयोः समाहारः वृ । वृ इत यस्य स वित् तस्मात् वितः ॥ उकारेत ऋकारेतश्च परस्य ईप्प्रत्ययस्य ह्रस्वो वा भवति तरादा ॥ विदुषितराष्ट्रवित इती । वसोर्व उरित्युत्वम् । ह्रस्वाभावे तरतमचरडिति पुंवद्भावः । विद्वत्तरा । विदुषीतरेत्यापि कैश्चिदुदाहृतं तन्निर्मूलम् ॥ (तत्त्वदी )-वितः परस्येति ॥ उश्च आ च नौ तावितौ यस्य स तथा तस्मात् ।।
(इष्टकेषीकामालानां चिततूलभारिषु इस्वः) इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुझेषीकतूलम् । मालभारी । उत्पलमालभारी॥
(सुबोधिनी)-इष्टकेषीकामालानां चिततूलभारिषु द्वस्वः ॥ इष्टकादीनां तदन्तानां च हस्वो भवति चितादिषु ॥ इष्टकाभिश्चितमितीष्टकचितम् । तदन्ते पक्केष्टकचितम् ॥ इषीकाणां तूलमिषीकतूलम् ॥ मालां विति इति मालभारी। कर्तरि णिनिः । हारिधिति पाठान्तरम् ॥ (तत्त्वदी० )-मालभारीति ॥ मालां बिभर्तीति विग्रहः । ताच्छील्ये णिनिः ॥ (कारे सत्यागदस्य मुम् ) सत्यंकारः। अगदंकारः ॥ (सुबोधिनी)-कारे सत्यागदस्य मुम् ॥ सत्यागदयोर्मुम् स्यात् कारे ॥ सत्यंकारः। शपथकरणमित्यर्थः॥ अगदकारा वैद्यः ॥ (तत्त्वदी० )-सत्यकारः इति । समयकरणम् ॥ अगदंकारो वैद्यः ।। (अस्तोश्च ) अस्तुंकारः ॥ सुबोधिनी)-अस्तोश्च ॥ अस्तु इत्यस्य मुम् स्यात् कारे ॥ अस्तु इत्याख्यानप्रतिरूपकमव्ययम् । अस्तुंकारः अभ्युपगम इत्यर्थः ॥ (तत्त्वदी० )-अस्तुंकारोऽभ्युपगमः ॥ अस्त्विति तिबन्तप्रतिरूपकमव्ययम् ॥ (धेनोभव्यायाम् ) धेनुभव्या ॥ (सुबोधिनी )-धेनोव्यायाम् ॥ धेनुशब्दस्य मुम् स्यात् भव्यायां परस्याम् ॥ धेनुश्चासौ भव्या चेति विग्रहः । धेनुंभव्या । भविष्यन्ती धेनुरित्यर्थः । निपातनाद्भविष्यति कर्तरि कृत्प्रत्ययः॥ (तत्त्वदी० ) धेनुभव्येति ॥ धेनुश्चासौ भव्येति विग्रहः । भविष्यन्ती धेनुरित्यर्थः । (लोकस्य पृणे ) लोकंपृणः ।।