________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता।
(१६७) अस्मिति जातम् । स्यादिषु युष्मस्मोरपि त्वमहमादय आदेशा भवन्ति । एकदेशविकृतमनन्यवादित्युक्तत्वात्। त्वम् अहम् । औविभक्त्यादिषु गौणत्वेऽपि टाङयोस्विभक्तीवर्जयित्वा सर्वत्रात्वे कृते आत्वम् । युषाम् । असाम् । यूयम् । वयम् । १ । युषाम् । असाम् । युषान् । असान् । २ । ए टाङयोरित्यस्य व्याख्या नान्तरेणान्तस्य यत्वम् युष्या । अस्या। युषाभ्याम् । असाभ्याम् । युषाभः। असाभिः ।३। तुभ्यम्। मह्यम् । युषाभ्याम् । असाभ्याम् । युषभ्यम् । असभ्यम् । ४ । युषत् । असत् । युषाभ्याम् । असाभ्याम् । युषत् । असत् ॥५॥ तव । मम । अन्तस्य यत्वे युष्योः। अस्योः। युषाकम् । असाकम ॥ ६ ॥ यत्वे युष्यि। अस्थि । युष्योः । अस्योः । युषासु । असासु ॥ _(तत्त्वदी०)-सामाकमिति साम् आकम् इति छेदः तेन युष्मदस्मद्भयां परः साम् आकम् भवति ॥ अनयोश्वाकारोऽन्तादेशः ॥ अत्राहुः। नन्वतियुष्माकमित्यादौ गौणत्वात्त्यदाद्यत्वाभावादनवर्णान्तत्वात्सुडभावात्कथं सामिति चेत्सत्यम् । तंत्रादिना सामिति द्वयं बोध्यम् । एकस्य तु सुटा सहाम् सामिति । द्वितीयस्य तु आमा सह साम् । ततश्च सुटसहित आम् केवलश्च आकं भवति तयोश्चाकार इत्यर्थों भवतीति । अत्रेदमवधेयम् । गौणत्वात्त्यदाद्यत्वाभावादनवर्णान्तत्वात्सुडभावादिति किमर्थ गौणत्वात् सुडभावादित्यस्यैव वक्तुमुचितत्वात् सुटोऽपि सर्वादिकायत्वात् गौणत्वेऽप्रवृत्तेः । अन्यथा आकारान्तादेशेनावर्णान्तत्वात् तन्त्रादिप्रयासोऽनर्थकः संपघेत ससुनिर्देशस्तु आकम आदेशस्य स्थानिवद्भावेनामत्वमाश्रित्य पश्चादपि सुट् स्यादिति तन्निवृत्तये ॥ अयमेवात्र ग्रन्थे स्थानिवद्भावज्ञापकः ॥ त्वन्मदेकत्वे' 'युवावौ द्विवचने' इति सूत्रद्वयेऽपि एकत्वद्विवचनशब्दौ न प्रत्ययपरौ किंत्वर्थपराविति फलं दर्शयति स्वार्थद्रव्यकारकलिङ्गसंख्येत्यादिपञ्चकं नामार्थ इति पक्षे संख्याया अपि नामार्थत्वादिति भावः । त्रिकपक्षे तु 'धेकार्थवाचिनी' इति पाठयम् । संख्याया विभक्त्यर्थत्वेऽपि संख्येयस्य नामत्वानपायात् । अन्यसंख्यश्चेत् युष्मदस्मदर्थगतसंख्येतरसंख्यायुक्तश्वेदित्यर्थः। समस्यमाने युष्मदस्मदी व्यकत्ववाचिनी चेत् समासार्थः अन्यसंख्यश्चेत् तदा युवावौ त्वन्मदावपि भवत इत्यर्थः ॥ तयोरिति ॥ युष्मदस्मदोरद्वयेकतार्थत्वात् द्वित्वार्थत्वैकार्थत्वाभावादित्यर्थः । संकलितार्थस्त्वयम् । यदा वाक्ये युष्मदस्मदोरेकत्वं तदा त्वन्मदादेशौ भवत एव । त्वन्मदेकत्व इति सूत्रे युष्मदस्मदोरेकत्वाभिधानस्योक्तत्वात् । यदा वाक्ये युष्मदस्मदी द्वित्वे तदा युवावौ भवत एव । युष्मदस्मदोद्वित्वाभिधायित्वात् । यदा तु वाक्ये युष्मदस्मदी बह्वथै समासार्थो द्वित्ववाची एकत्ववाची च तदा युष्मदस्मदोर्द्वित्वार्थत्वैकार्थत्वाभावान्न युवावौ न वा त्वन्मदौ ॥
(युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयाभिस्तेमे वानौ वस्नसौ) युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयासहितयोर्यथासंख्येनामी आदेशा भवन्ति ॥ तत्रैकवचनेन सह तमे । द्विवचनेन वांनौ । बहुवचनेन वस्नसौ ॥