________________
[ युष्मदस्मत्प्रक्रिया ]
टीकाद्वयोपेता ।
( १६१ )
स्त्वत्पुत्र इत्यादौ भवत्येव एकत्वाभिधानस्य निमित्तस्य सत्त्वात् । अत्राहुः । युवयोः पुत्रः युष्मत्पुत्र इत्यत्र स्याद्यभावात् कथमिति न वाच्यम् ॥ धातोरित्यन्त्रासंभवात्स्याद्यधिकारस्त्यक्तः सोsपि न संबध्यते । अत एव त्यदादेष्टेरः स्यादावित्यत्र पुनः स्यादिग्रहणं कृतमिति । अत्रेद वक्तव्यम् । ‘वन्मदेकत्वे’ ‘युवावौ द्विवचने' इत्यनयोर्द्वयोरपि नुधातोस्त्यदादेष्टे रित्येतत्सूत्रद्वयमध्यस्थताऽविशेषेण कथमेकत्र स्यादिसंबन्धोऽपरत्र नेति व्याख्यानं संगच्छते विनिगमनाविरहात् । किंतु द्वित्व इति वक्तव्ये द्विवचनग्रहणसामर्थ्यादत्र स्यादियोग इति समाधेयम् ॥
(asit) युष्मदस्मदोष्टेरात्वं भवति अमि सकारे भिसि च परे ॥ त्वाम् । माम् । युवाम् । आवाम् । त्यदाद्यत्वे शसीति दीर्घः ॥
( सुबोधिनी ) - आम्स्भौ ॥ आ अम् इति च्छेदः । युष्मदस्मदोष्टेरात्वं स्यादमि सकारे भिसि च । अम् च स च भिश्च तेषां समाहारोऽस्मि तस्मिन् । आगमजस्यानित्यत्वान्न नुम्भावः । भीत्येकदेशद्वारा समुदायानुकरणम् । अत्र माधव आह । टोरेति नानुवर्तनीयम् प्रयोजनाभावात् । षष्ठीनिर्दिष्टत्वादन्त्यस्यात्वे सवर्णदीर्घे च त्वां मामिति रूपसिद्धेः । युष्मदस्मदोर्म्यन्तयोः क्विपि युष्म् अस्मिति रूपम् आभ्याममि शसि च युपाम् असाम् युषान् असानित्यन्त्यस्य मकारस्यात्वे सिध्यति । अन्यथा न सत्यम् । अतियुष्माभ्यामित्यादावात्वं केन भवति गौणत्वे त्यदाद्यत्वाभावात् । उच्यते । आमावित्यत्र योगविभागेनात्वे कृते रूपसिद्धिरिति । तदा युष्मास्मोरपि योगविभागेनात्वे कृते पश्चारात्वे चामि शसि च युषाम् असाम् युषान् असानिति सिद्धयत्येव किं माधवोत्येति ॥
( तत्त्वदी ० ) - आम्स्भाविति || आ अमस्भाविति च्छेदः । नन्वतियुष्माभ्याम् अतियुष्मान् अत्रात्वं केन गौणत्वे त्यदाद्यत्वाभावात् इति चेत्सत्यम् । केचिदामावित्यत्र योगविभागेन परत्वादाऽम्स्भावित्यविभक्तिनिर्देशेन सात्पूर्वः परोवालुप्तनिर्दिष्टोनकारान्तस्तस्मिन्परेऽप्यात्वम् । अत्र षष्ठीदर्शनादन्तादेशः । टेरित्यवृत्तिस्तु प्रयोजनाभावात् युष्मदस्मदोर्युवामावामित्यसिद्धेश्वोपेक्षितम् ॥
(शसो नो वक्तव्यः ) युष्मान् । अस्मान् | त्वन्मदादेशे कृते ॥ ( सुबोधिनी ) - शसो नो वक्तव्यः ॥ सो नः पुंस इत्यत्र सो न इति योगविभागेनायमर्थो लभ्यते इत्यर्थः ॥
( ए टायोः ) युष्मदस्मदोष्टेरेत्वं भवति टाङयोः ॥ त्वया । मया । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
(सुबोधिनी) - एटाडयोः ॥ अत्र टेरित्यनुवृत्तं अनयोष्टेरेत्वं स्यात्।टाश्च ङिश्च तयोः परतः । इदन्तत्वात् ङे: पूर्वनिपाते प्राप्ते तस्यानित्यत्वज्ञापनार्थं परनियातः । किंच परत्वात्त्यदादेरित्यत्वे प्राप्तेऽपि आदौ ए टाङोरित्येत्वप्रवृत्तिरेव न्याय्या कृताकृतप्रसङ्गित्वेन तस्य नित्यत्वात् । रेन्वे कृले अयादेशे च त्वया मयेति । अत्र हि
१३