________________
(३०२)
सिद्धान्तचन्द्रिका। [तद्धितप्र० ] (तत्त्वदी० )-अपोनपादपानपातोरिति ॥ अत्रादेशे यथासंख्यं न तु प्रत्यये व्याख्यानात् ॥
(प्रावृष एण्यः ) प्रावृड् देवताऽस्य प्रावृषेण्यम् । कैः प्रजापतिर्देव ताऽस्य कायम्॥
(सुबोधिनी )-प्रावृष एण्यः॥अस्मादेण्यः प्रत्ययःस्यात् देवतार्थे ॥ प्रवर्षतीति प्रावृट् । नहिवृतीति दीर्घः। जातेऽर्थे तु इकः । प्रावृषि जातःप्रावृषिकः। प्रावृषेण्यः। "स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत् स्त्रियाम्" इत्यमरः ॥ कस्येकारान्तादेशोऽणि। को ब्रह्मा देवताऽस्यति। यस्येति लोपात्परत्वादादिवृद्धिः। आय । काय हविः॥
(तत्त्वदी०)-कायमिति ॥ अत्र यस्य लोपं बाधित्वा परत्वादृद्धिः ॥ - (क्वचिद् द्वयोः) पूर्वोत्तरपदायोः स्वरयोः क्वचिद्वृद्धिर्भवति णिति॥ आनिमारुतम् ॥
(सुबोधिनी)-क्वचिद् द्वयोः॥ द्वयोरिति षष्ठ्यन्तं पदविशेषणम् । अनामरुतौ देवते अस्येति अग्नेरिदिति वक्ष्यमाणेनेकारादेशः । उभयत्र वृद्धिः। आग्निमारुतम् । अण् । स्वाम्यर्थवाचकदेवताद्वन्दे एव पूर्वोत्तरपदादिस्वरवृद्धिविषयकमुदाहरणमेतत् । तेनेह न स्कन्दविशाखयोरयमिति स्कान्दविशाखः । अण् । “पार्वतीनन्दनः स्कन्दः" इत्यमरः ॥ नेन्द्रस्य परस्य ॥ उभयत्र प्राप्ती परस्येन्द्रशब्दस्य वृद्धिर्न भवति देवताद्वन्दे । सोमेन्द्रौ देवते अस्येति सौमेन्द्रः पशुः । अण ॥ परस्येति किम् । इन्द्राग्नी देवते अस्येति ऐन्द्रानोऽण् । यस्येतीकारलोपः ॥ दीर्घात्परस्य वरुणस्य वृद्धिर्न भवति देवताहन्दे । इन्द्रावरुणो देवते अस्यति । देवताद्वन्दे पूर्वस्येत्यात्वम् । ऐन्द्रावरुणम् । मित्रावरुणो देवते अस्येति मैत्रावरुणम् । अण् ॥ दीर्घात्किम् । “आग्निवारुणीमनड्डाहीमालभेत" इति ॥ • (तत्वदी० )-क्वचिद् द्वयोरिति ॥ अत्रादिस्वरस्येति संपूर्णसूत्रमनुवर्तते । द्वयोरिति षष्ठयन्तं पदविशेषणम् । यद्यपि समासेनैकपद्यं तथाप्यन्तर्वतिन्या विभक्त्या पदद्वयत्वं बोध्यम् । एदोतोऽत इति ज्ञापितमुत्तरस्यापदत्वं तु ज्ञापकसिद्धं न सर्वत्रेति वचनान्नेहाश्रयणीयम् ।। आनिमारुतमिति ॥ अमामरुतौ देवते अस्येति विग्रहः ।।
(अग्नेरिद्वद्धौ ) वृद्धिमत्युत्तरपदे अमेरिदादेशः स्यात् ॥ आमिवारुणम् । सौहार्दम् । सौभागिनेयः । सौभाग्यम् । साक्तुसैन्धवः। आनुशातिकम् । ऐहलौकिकम् । पारलौकिकम् । पौर्वाह्निकम् ॥