SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ (३०८) सिद्धान्तचन्द्रिका | [ तद्धितप्र० ] (छगलिनो णयिनः ) छगलिना प्रोक्तमधीयते ये छागलेबिनाः ॥ ( सुबोधिनी ) - छगलिनो पेयिनः ॥ छगलिन्शब्दात् णेयिनः प्रत्ययः स्यात् प्रोक्तमधीते इत्यर्थे ॥ छगलिना प्रोक्तं शास्त्रमधीयते पठन्ति ये ते छागलेयिनाः ॥ नो वेति टिलोपः ॥ ( तत्त्वदी ० ) - छागलेयिना इति ॥ णित्त्वाद्वृद्धिः ॥ ( पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोणिनिः) पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥ ( सुबोधिनी ) - पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोर्णिनिः ॥ आभ्यां णिनिः स्यात् ॥ इकार उच्चारणार्थः ॥ पाराशर्यो व्यासः ॥ अनन्तरापत्येऽपि उपचारागर्गादिभ्यो ण्यः । यस्येत्यलोपे क्वचिद्यलोप इति वक्ष्यमाणेन यलोपः । पाराशरिणः ॥ शिलालिना प्रोक्तं नटसूत्रमधीयते ये ते शैलालिनः ॥ ( तत्त्वदी ० ) - पाराशर्येति ॥ भिक्षुसूत्रे वाच्ये पाराशर्यशब्दात् नटसूत्रे शिलालि - शब्दाद् णिनिरित्यर्थः ॥ पाराशरिण इति ॥ कन्यादित्वाद्यलोपः ॥ ( कर्मन्दकृशाश्वादिनिः ) उक्तविषये ॥ कर्मन्दिनः । कशाश्विनः ॥ ( सुबोधिनी ) - कर्मन्दकृशाश्वादिनिः ॥ उक्तविषये आभ्यामिनिः स्यात् ॥ कर्मन्देन प्रोक्तं भिक्षुत्रमधीयते ये ते कर्मन्दिनो भिक्षवः । कृशाश्वेन प्रोक्तं नटसूत्रमधीयते ये ते कृशाश्विनो नटाः ॥ भिक्षुनटसूत्रयोः किम् । पाराशर्यस्येदं पाराशरम् ॥ शिलालिन इदं शैलालम् || कार्मन्दम् || कार्शाश्वम् ॥ अण् ॥ ( तत्त्वदी ० ) - उक्तविषये इति ॥ भिक्षुनटसूत्रयोरित्यर्थः ॥ (त्रपुजतुनोः षण् विकारे ) त्रापुषम् । जातुषम् ॥ 1 ( सुबोधिनी ) - पुजतुनोः षण विकारे । आभ्यां षण स्याद्विकारे ॥ त्रपुणो विकारः त्रापुषम् ॥ जतुनो विकारः जातुषम् ॥ ( शम्याः ब्लञ् ) शामीली स्रुक् ॥ ( सुबोधिनी ) - शम्याः प्लञ् ॥ शमीशब्दात् ष्लञ् स्यात् । षित्त्वादीपू ॥ शम्या विकारः शामीलं भस्म । ष्ट्रत्रित् इतीपू । शामीली ॥ ( तत्वदी ० ) शामीलीति ॥ शम्या विकार इति विग्रहः । पित्वादीप् ॥ ( शक्तियष्टयोरीकण प्रहरणे ) शाक्तीकः । याष्टीकः ॥
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy