________________
(२०२) सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः]
( सुबोधिनी )-सहनविद्यमानपूर्वान ॥ सहेत्यादित्रिकपूर्वात्स्वाङ्गान्ने स्यात् ॥ सह केशः वर्तते या सासकेशा। सहादोरति सहस्य सः॥अविद्यमानाः केशाः यस्याः सा अकेशा । ना इति नजोऽकारादेशः ॥ विद्यमाना नासिका यस्याः सा विद्यमाननासिका । स्वाङ्गादत्यस्य नासिकोदरौष्ठेत्यस्य च बाधकोऽयं परत्वात् ॥
(नखमुखात्संज्ञायाम् ) शूर्पणखा । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या ॥
(सुबोधिनी)-नखमुखात् संज्ञायाम् ॥ आभ्यामीप न स्यात् संज्ञाथै ॥ शूर्पणखा। रावणस्य स्वसुर्नाम ॥ यदा शूर्पवन्नखानि यस्याः सा इति योगमात्रं विवक्ष्यते न तु संज्ञा तदा ईप् स्यादेव णत्वाभावश्च ॥ गौरमुखति कस्याश्चित् संज्ञा ॥ असंज्ञायां तु तानं मुखं यस्याः सा ताम्रमुखी ॥
(वौर्गुणात् ) उदन्ताद्गुणवाचिनो वा स्त्रियामीपू स्यात् ॥ पट्टीपटुः । बह्वी-बहुः ॥
(सुबोधिनी)-वोर्गुणात् ॥ वा ओरित छेदः । गुणशब्दोऽत्र गुणवत्वपरो न तु गुणमात्रवाचिपरो गुणमात्रवाचकानां स्त्रीलिङ्गाभावात् । “गुणे शुक्लादयः पुंसि" इत्युक्तत्वात् ॥ उदन्तादिति किम् । शुचिः॥ गुणात्किम् । आखुः।। महाभाष्ये गुणलक्षणम् । “सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥" स गुण उच्यते । यः सत्त्वे द्रव्ये निविशते । द्रव्यमुपैतीत्यर्थः ॥ ननु द्रव्ये द्रव्यत्वं तत्रातिव्याप्तिरत आह । यः पृथक द्रव्यादपैति अपगच्छति । द्रव्यं जहातीत्यर्थः॥ यथा पीततायां जातायां नीलता फलादपैति नैवं द्रव्यत्वं द्रव्यादपैति । ननु गोषु गोत्वं तदश्वादेश्चापैति तत्रातिव्याप्तिरत आह । यः पृथगजातिषु दृश्यते । द्रव्यान्तरेष्ववलोक्यते । यथाऽभ्र दृष्टा नीलता तृणादिष्वपि दृश्यते न तथा गोत्वं पृथग्जातिषु दृश्यते ॥ एवं तर्हि द्रव्ये क्रिया वर्तते सा द्रव्यादपैति पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह । य आधेय उत्पाद्यः। च पुनः यः अक्रियाजोऽनुत्पाद्य इत्यर्थः । उत्पाद्यो यथा । घटादेः पाकजो रूपादिः । अनुत्पाद्यो यथा। आकाशादेर्महत्त्वादिः। क्रिया तु सर्वाऽप्युत्पाद्यैव ॥ ननूत्पाद्यायाः क्रियाया वैविध्याभावाद्गुणत्वाभावः । एवं तर्हि द्रव्यस्य गुणत्वं प्राप्नोति । तथा हि । अवयवि द्रव्यं ह्यवयवद्रव्येषु निविशते संयोगविनाशादवयवद्रव्यादपति । पृथग्जातिषु हस्तपादादिषु दृश्यते । द्रव्यमुत्पाद्यानुत्पाद्यभेदेन द्विविधम् । तत्र निरवयवस्यात्मपरमाण्वा. देरनुत्पाद्यत्वं नित्यत्वात् । अवयविद्रव्यस्य घटादेस्तुत्पाद्यत्वमस्त्यनित्यत्वादत आह योऽसत्त्वप्रकृतिरद्रव्यस्वभावो द्रव्याद्भिन्न इत्यर्थः ॥