________________
[स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
(२०३) (तत्त्वदी० )-वौर्गुणादिति ॥ वा ओः गुणादिति छेदः । औरिति तु न । औः प्रत्यय इति व्याख्यानं न कार्यिणः प्रागनुद्देशात् । सतो हि कार्यिणः कार्येण भाव्यमिति । ओरित्यपि उवर्णान्तस्यैव ग्रहणम् न त्वोकारान्तस्य गुणस्य तदभावात् । केवलस्यापि उमात्रस्य गुणस्याभावात् । गुणशब्दोऽपि न स्वरूपपरः तस्यानुदन्तत्वात् । गुणमात्रवाचिपरोऽपि न तस्य स्त्रियामप्रवृत्तेः । " गुणे शुक्लादयः पुंसि" इति वचनात् ॥ गुणलक्षणं तु " उपत्यन्यजहात्यन्यद् दृष्टो द्रव्यान्तरेष्वपि । वाचकः सर्वलिङ्गानां द्रव्यादन्यो गुणः स्मृत" इति ॥
(खरुसंयोगोपधान) खरुः । पाण्डुः ॥
( सुबोधिनी)-खरुसंयोगोपधान ॥ खरुशब्दात् संयोगोषधगुणवाचिनः शब्दाच्च नेप् स्यात् ॥ खरुः पतिवरा कन्या । पाणिग्रहणोत्कण्ठावतीत्यर्थः ॥
(तत्त्वदी०)-खरुसंयोगेत्यादि ॥ वाशब्दादेतत् । खरुः पतिंवरा कन्या । तत्र पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनत्वम् ॥
(कृदिकारादक्त्यर्थात् ) आजी-आजिः । धूली-धूलिः । रात्रीरात्रिः। शकटी-शकटिः । अक्त्यर्थात् किम् । भूतिः। अजननिः॥
(सुबोधिनी)-कृदिकारादक्त्यर्थात् ॥ क्त्यादिभिन्नात्कृत्संबन्धिन इकारात् स्त्रियां वेप स्यात् ॥ आजी संग्रामः॥ धूली रजः ॥ अक्त्यर्थात् किम् । भूतिः। क्तिरिति स्त्रियां भावेऽर्थ क्तिः ॥ आक्रोशे नश्यनिरिति जनेरनिप्रत्ययः । न जायते इत्यजननिः।।
( पद्धत्यादिभ्यो वा ) पद्धती-पद्धतिः। (सुबोधिनी )-पद्धत्यादिभ्यो वा ॥ स्त्रियामेभ्यो वेप् स्यात् ॥ पद्भयां हन्यते इति पद्धतिर्मार्गः। क्तिप्रत्ययान्तत्वादप्राप्त विध्यर्थम् । पद्धतिशब्दो गणे पठ्यते । पद्धतिषष्टिविकटविशालकल्याणपुराणचण्डकृपाणअहनित्यादयः ॥ __ (ऐ च मन्वादेः) मनुपूतक्रतुवृषाकप्यमिकुसितकुसिदानामै आदेश ईपू च स्त्रियां पुंयोगे ॥ पूतक्रतायी । कुसितायी । कुसिदायी । वृषाकपायी । अनायी ॥
(सुबोधिनी)-ऐ च मन्वादेः ॥ मनुरादिर्यस्य स मन्वादिस्तस्मान्मन्वादेः। आदिशब्दः प्रकारे। स्त्रियां मन्वादेरीप् स्यात् पुयोमे एषामन्तस्यैकारादेशश्च ॥ पूतः ऋतुर्यस्य येन वा पूतक्रतुः। पूतकतोः स्त्रीः पूतक्रतायी ॥ पुंयोगे किम् । पूतक्रतुर स्त्री। "यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा" इत्यमरः ॥ अमेः स्त्री अग्नायी।