SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (२५६) सिद्धान्तचन्द्रिका। [ समासप्र०] (सुबोधिनी)-द्वन्द्वे स्वराद्यदन्तस्य पूर्वनिपातः ॥ स्वर आदिर्यस्य स स्वरादिः । अत् अन्ते यस्य सोऽदन्तः । स्वरादिश्वासावदन्तश्च स्वराद्यदन्तस्तस्य ।। ईशश्च कृष्णश्च ईशकृष्णौ ॥ बहूनां द्वन्द्व नियमो न । इन्द्राश्वरथा:-अश्वरथेन्द्रा वा।। प्रधानस्य पूर्वनिपातो यथा तापसश्च पर्वतश्च तापसपर्वतौ ॥ भोक्ता च भाग्यश्च भोक्तृभोग्यौ ॥ इकारोकारान्तानां पूर्वनिपातो यथा । पटुश्च गुप्तश्च पटुगुप्तौ । अग्निमारुतौ ॥ (तत्त्वदी० )-स्वराद्यदन्तस्येति ॥ स्वर आदिर्यस्य स स्वरादिः । अत् अन्ते यस्य सोऽदन्तः । स चासौ स चेति स तस्येत्यर्थः ।। (देवताद्वन्द्वे पूर्वपदस्याकारः ) इन्द्राबृहस्पती । अमाविष्णू ॥ (सुबोधिनी )-देवताद्वन्द्वे पूर्वपदस्याकारः ॥ इन्द्रश्च बृहस्पतिश्च इन्द्राबृहस्पती । अग्निश्च विष्णुश्च अग्नाविष्णू ॥ (तत्त्वदी० )-देवताद्वन्द्वे पूर्वपदस्याकार इति ॥ यत्तु प्राचा देवताद्वन्द्वे पूर्वपदस्य दीर्घ इत्युक्तम् । यच्च तद्वासुदेवेन व्याख्यातं देवतावाचकानामन्योऽन्यद्वन्द्वसमासे पूर्वपदान्त्यस्वरस्य दीर्घो वक्तव्य इत्यर्थ इति । तत्सर्वमनाकरत्वादुपेक्षितम् ॥ तथा च पाणिनिः'देवताद्वन्द्वे च' इहोत्तरपदे परे आनङ् । अमाविष्णू इत्यादावात्वमेवोक्तवान् ॥ (क्वचिन ) अभिवायू । ( सुबोधिनी ) क्वचिन ॥ देवताद्वन्द्वे पूर्वपदस्यात्वं न भवति क्वचित् ॥ अग्निवायू वाय्वनी वा ॥ (तत्त्वदी० )-क्वचिन्नेति ।। ज्ञापकसिद्धं न सर्वत्रेत्युक्तेः । ज्ञापितं चैतत् द्वन्द्वसंज्ञासा. मर्थ्यात् । अन्यथा चार्थत्वेनैव व्यवहारः स्यात् ॥ इति द्वन्द्वः ॥ (ईदग्नेः सोमवरुणयोः ) (सुबोधिनी )-ईदग्नेः सोमवरुणयोः ॥ आत्वस्यापवादोऽयम् । देवताबन्दे पूर्वपदस्य अग्नेरीत् स्यात् सोमवरुणयोः परयोः॥ । (अग्न्यादेः सोमादीनां सस्य षः ) अग्नीषोमौ । अनीवरुणौ ॥ (सुबोधिनी )-अग्न्यादेः सोमादीनां सस्य षः ॥ अग्नीषोमौ । आदिश. न्दात् अग्निः स्तूयतेऽस्मिन्नित्यधिकरणे क्विम् । अग्निष्टुत् यज्ञविशेषः ॥ अग्नीनां स्तोम इति अग्निष्टोमः सोमयज्ञस्य संस्थास्वाद्यसंस्था । ज्योतिष्टोमः । अयाष्टोमः। अङ्गुलिषङ्गः । भीरुष्ठानमित्यादि ॥ प्राणितूर्यसेनाङ्गानां द्वन्द्व एकवत् । प्राणितूर्य
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy