________________
(१२२)
सिद्धान्तचन्द्रिका। [हसान्तपुंलिंगाः] त्यनुवृत्तमप्ययोरान्नित्यमिति सूत्रान्मण्डकप्लुत्या आदित्यनुवर्तते । तेनावर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमाऽऽम् न बाध्यते । अमा च नुम् न वाध्यते ॥
(संयोगान्तस्य लोपः) स्यादौ रसे पदान्ते च ॥ (सुबोधिनी)-संयोगान्तस्य लोपः ॥ संयोगेति अन्तस्येति च छेदः । अनुकरणाद्विभक्तेर्वैकल्पिकत्वादविभक्तिको निर्देशः। नाम्न इति विशेष्यम् । संयोगेति विशेषणम् । विशेषणेन च तदन्तविधिः । तेन संयोगान्तस्य नाम्नोऽन्तस्य लोपो भवति स्यादौ रसे च । पुनः पदान्ते वर्तमानो नाम्नो धातोश्च यः संयोगस्तस्यान्तस्य लोप इति ॥ पदान्ते यथाऽयमर्थः। अचोस्कुन् ॥ संयोगान्तस्यति किम् । रुत् । संयागस्य नाम्नो विशेषणत्वादादेर्न त्वट् ॥ अनः शकटं वहतीति विग्रहे अनसि वहे. विप् । अनसो डश्च । यजामिति संप्रसारणम् । अनडुह सि इति स्थिते । आमनुमौ। परत्वात् संयोगान्तलोपे कृते सिलोपः । अनड्वान् । ' वसां रसे' इत्यनेन नुमो दत्वं न नुम् विधिसामर्थ्यात् ॥
(तत्त्वदी.)-संयोगान्तस्य लोप इति ॥ संयोग अन्तस्येति छेदः । अनुकरणाद्विभक्तवैकल्पिकत्वादविभक्तिको निर्देशः। तच्च नाम्नो विशेषणम् । तस्मात्तदन्तलाभः। तेन संयो. गान्तस्य नाम्नोऽन्त्यस्य लोपो रसे । पदान्ते वर्तमानो यः संयोग इत्येव न तु नाम्नस्तेन धातोः संयोगान्तस्यापि पदान्ते भवति । नाम्नो विशेषणत्वादादेर्न स्तः । संयोगावन्ते यस्येति विग्रहलाभार्थमन्तग्रहणम् । अन्यथा सोमसुत्स्थानेत्यत्रापि लोपः प्रसज्येत इति तु प्रत्येकं संयोगसंज्ञेति पक्षे । समुदायसंज्ञापक्षे तु संयोगोऽन्तो यस्येति विग्रहेऽपि व्यर्थम् । विशेषणत्वेनैव तदन्तलाभात् । लोपशोऽनुवृत्तावपि लोपग्रहण सन्नच्युत इत्यादौ द्वित्वार्थम् । अन्यथा लोपशि पुनर्न संधिरिति निषेधः प्रवर्तत ।।
(सभिन्नस्य रान ) अनड्वान्, अनड्वाही, अनड्वाहः ॥ (सुबोधिनी)-सभिन्नस्य रान॥रात्परस्य सस्यैव लोपः स्यान्नान्यस्य वर्णस्य॥ चतुरो वारान् इति चतुः । सुप्रत्ययस्य लोपोन्त्र । सस्येति किम् । ऊर्छ । अमाई ॥ - ( तत्त्वदी०)-सभिन्नस्येति ॥ रात्परस्य सकारमात्रस्य लोपो न तु सभिन्नवर्णान्तरस्येत्यर्थः । तेन ऊ इत्यादि सिद्धम् ॥
(धावम् ) चतुरनडुहोर्धावमागमो भवति आम्न । हे अनड्वन् ॥ (सुबोधिनी )-धावम् ॥ चतुरनडुहोरमागमः स्यादौ परे। आमोऽपवादः । चतुरशब्दात्तु गौणे । हे प्रियचत्वः ॥
(तत्त्वदी० )-धावमिति ॥ चतुरनडुहोरनुवृत्तेराह-चतुरेत्यादि ॥ चतुरस्तु गौणत्वे हे प्रियचत्वः । नुविधिसामर्थ्याद्वित्वं न ॥