________________
(१५०) . सिद्धान्तचन्द्रिका। [हसान्तस्त्रीलिंगाः ] (सुबोधिनी )-मादू ॥ उश्च ऊश्चानयोः समाहार ऊ । संज्ञापूर्वकत्वान्न ह्रस्वः॥ (तत्त्वदी०)-मादू इति ॥ मात् उ ऊ इति च्छेदः । समाहारे ह्रस्वत्वापत्तेः । यद्वाऽस्तु समाहारः। ह्रस्वस्तु न संज्ञापूर्वकत्वेनानित्यत्वात् । अत्राहुः । मादिति पञ्चमीनिर्देशात्परः स्थानी लभ्यते । स च हसः स्वरश्च । मात्परस्य हसस्यासंभवात्स्वर एवं गृह्यत इति । अत्रेदमवधेयम् । अमुमुयङ् इत्यत्र मात्परस्य रेफरूपहसस्योत्वदर्शनात् हसस्यासंभवात्स्वर एव गृह्यते इत्युक्तिनिर्मूला । तथा चोक्त दीक्षितैः । ह्रस्वव्यञ्जनयोईस्वः दीर्घस्य तु दीर्घ इति । व्यञ्जनस्यासंभवे कथमिदं संगच्छते इति ॥
(एरी बहुत्वे) अदस एकारस्यर्भवति बहुत्वे सति ॥ जसि अमी । अमुम्, अमू, अमून्, । अमुना, अमूल्याम्, अमीभिः । अमुष्मै । अमुप्मात् । अमुष्य, अमुयोः, अमीषाम् । अमुष्मिन्, अमुयोः, अमीषु ॥ इति हसान्ताः पुंल्लिङ्गाः ॥
(सुबोधिनी)-एरी बहुत्वे ॥ अदसः किम् । ते ॥ एः किम् ॥ अमून् ॥ बहुत्वे किम् । अमुयोः ॥ इति सुबोधिन्यां हसान्ताः पुंल्लिङ्गाः ॥
(तत्त्वदी० )-एरी बहुत्वे इति ॥ बहुत्वे किम् । अमुयोः ॥ ... श्रीरामकरपौत्रेण लोकेशकरशर्मणा । कृतायामिह टीकायां पुल्लिङ्गोऽगाद्धसान्तकः ॥
___ इति तत्त्वदीपिकायां हसान्ताः पुल्लिङ्गाः ।
अथ हसान्ताः स्त्रीलिङ्गाः। (नहो धः ) नहो हस्य धो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥ उपानत्-उपानद् । उपानद्याम् । उपानत्सु ॥ उष्णिक्-उष्णिग्, उष्णिहौ, उष्णिहः । उष्णिायाम् । उष्णिक्षु ॥ यौः, दिवौ । युट्याम् । धुषु ॥ गीः, गिरौ । गीर्याम् । गीर्षु ॥ एवं पुर्धरादयः॥ चतस्रः ॥ प्रियचत्वाः, प्रियचत्वारी, प्रियचत्वारः । हे प्रियचत्वः ॥ __ (सुबोधिनी)-नहो धः॥ ढस्यापवादः । हो ढ इत्यतो हस्येत्यनुवर्तते । उपपूर्वान्नहेः विप् । नहिवृतीति पूर्वपदस्य दीर्घः । उपनह्यते इति उपानत् ॥ उत्पूति णिह प्रीतावित्यस्मात् किप् ॥ निपातनादलोपषत्वे । दिशामिति हस्व घः। जवत्वचपत्वे । उष्णिक्-उष्णिम् ॥ 'दिव औ' इत्यौत्वे द्यौः । 'ऊ रसे' इत्युत्वे धुभ्याम् ॥ 'गृ-निगरणे ।' अस्मात् 'गृ शब्दे' इत्यस्मादा किप् । ऋत इरितीर् । 'वो वि हसे' इति दीर्घः । गीः ॥ एवं 'पृ पालनपूरणयोः।' पोरुरित्युर् । पूः॥