________________
[ हसान्तपुंल्लिंगाः] टीकाद्वयोपेता। (१४९) च । 'सम्बोधने' इत्यादि । सान्तम् । सस्थ नकारादेशे नान्तम् । सस्य लोपेऽदन्तम्। इगन्ते इदन्ते उदन्ते ऋदन्ते च क्लीवे धौ गुणमिति ॥ पुरु बहु दंशतीति पुरुदंशा इन्द्रः ॥ नजि हन एह चेत्यसुप्रत्यये अनेहाः कालः॥
(तत्त्वदी०)-उशनसामिति ॥ बहुवचनमाद्यर्थम् ॥ अत्राहुः । उशनेत्यत्र संज्ञापूर्वकस्वान्नोपधाया इति दीर्घो नेति । अत्रेदमवधेयम् । इयं शङ्का सिलोपेऽकृते कृते वा । नाद्यः। तत्र नान्तत्वाभावात्सान्तस्यैव दर्शनात् । द्वितीयेऽपि नान्तस्य नाम्न इति व्याख्यानात् । तत्र नित्यमिति सम्बन्धात् नित्यं नान्तस्य इति लाभात् । प्रकृते तदभावादेव नेति विचारः ॥ (सौ सः) अदसो दस्य सः सौ ॥
(सुबोधिनी)-सौ सः ॥ मत्वापवादः॥
(तत्त्वदी० )-सौ स इति ॥ अत्र त्यदादेष्टेरिति सूत्रात्त्यदादेरित्यस्यानुवृत्तर्विवरणेत्यदादेर्दस्येत्येवोचितं न त्वदस इति । यदि तु त्यदादेरदस इति व्याख्यायते तदा न दोषः ॥ त्यदादेः किम् । वन्दः । नन्दः ॥ दस्य किम् । यः ॥ सौ किम् । अमूनि ॥ स इत्यकारसहितवान्नान्यस्य ॥
(सेरौः) अदसः सेरौर्भवति ॥ असौ । दस्यःमः॥ (सुबोधिनी )-सेरौः ॥ अदसः परस्य सेरौः स्यात् ॥ असौ । अत्र वाशब्दमनुवर्त्य व्यवस्थितविकल्प आश्रयणीयस्तेन अकसहितस्यादसः सेवौत्वमौत्वाभावे सात्परस्य उत्वं च वक्तव्यम् । असको असुक इति । स्त्रियाम् असकौ । औत्वाभावे असुका ॥ अमुक इति अमुकी इति च प्रयोगोऽसाधुरेव । अथ कथममुकगोत्रस्याऽमुकशर्मण इति अपभ्रंश एवायमिति प्राञ्चः । अमुकशब्दोऽव्युत्पन्नं नाम वृत्तिविषये एव प्रयुज्यते इत्यन्ये ॥
(तत्त्वदी० )-सेरोरिति ॥ ननु स्त्रियामकान्तस्यासकाविति कथम् । काप्यत इतीत्वेन भवितव्यमिति चेत्सत्यम् । डेरौ डिदित्यतो डिदित्यनुवृत्तेर्डित्त्वाहिलोपे रूपसिद्धः । अत्र वेत्यनुवृत्तेस्तस्य व्यवस्थितत्वाश्रयणात् साकाददसः सेरौत्वं वा । औत्वाभावे सादुत्वं च । असुकः। तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात् साकस्यापि त्यदादिकार्यम् । कथममुकगोत्रस्य अमुकगोत्र इति चेत् । अपभ्रंश एवायमिति दीक्षिताः ॥ रामाश्रमास्तु । अमुकशब्दोऽव्युत्पन्ननाम वृत्तिविषये प्रयुज्यते । केवलस्य तु अदकसूशब्दस्यैव प्रयोगः। अमुक इत्येकवचने तु यदि शिष्टप्रयोगस्तदा साधुः । नो चेत् असाधुरेव । अमुकशब्दस्य तु वृत्तिविषये प्रयोगाभ्युपगमो युक्त एवेति । यद्यपि सामान्येऽकः स्यादित्यकश्चेति व्युत्पादितस्तथाऽपि तस्य प्रयोगः समास एव न स्वतन्त्रस्येत्याहुः । तत्रेदमवधेयम् । इत्थं हि महानिबन्धानामृषिवाक्यानां च गतौ सत्यां नाप्रामाण्यमापादनीयमिति स्वोक्त्यैव शिष्टप्रयोगनिष्पत्तिश्चेत्पुनर्यदि विशिष्टप्रयोग इत्यादिसंशयोक्तिविरुद्धेति ॥
(मादू) अदसो मात्परस्य उश्च ऊश्च भवति ॥ अमू ॥