________________
(५८)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः] दिलाभसंभवात् । न चेष्टापत्तिः वेधःसु इत्यादावति दीर्घत्वप्रसङ्गात् । न च श्रवणार्थः गुण इत्यादिलिङ्गात् । एतेन सेरिकार उच्चारणार्थ इत्युक्तिः प्रत्युक्ता सू इत्यनेनाप्युच्चारणसंभवात् ।।
(एकत्वद्वित्वबहुत्वेषु ) एकवचनद्विवचनबहुवचनानि ॥ स्रोविसर्गः । देवः॥
(सुबोधिनी)-एकत्वद्वित्वबहुत्वेषु ॥ एकत्वद्वित्वबहुत्वशब्दा इह संख्यापराः सन्तिातेन बहुः पर्वतः इति वैपुल्यवाचिनो ग्रहणं न।आश्रयद्रव्यगतेषु एकत्वद्वित्वबहुत्वेषु सत्सु एकवचन द्विवचनबहुवचनसंज्ञकाः प्रत्ययाः भवंति । उच्यतेऽनेनेति वचनम् । एकस्य वचनमेकवचनम् द्वयोर्वचनमिति द्विवचनम्। बहूनां वचनमिति बहुवचनम्॥
(तत्त्वदी०)-एकवचनादिसंज्ञानामन्वर्थतामाश्रित्याह-एकत्वेत्यादि । तथा च एकं वक्ति एकवचनम् ।द्वौ वक्ति द्विवचनम्।बहून्वक्ति बहुवचनम् ॥ यद्वा उच्यत इति वचनम् । एकस्य वचनमिति ॥ जसो जकारस्य फलमाह । जसो जकार इति ॥ तथा च शसः शकारोऽपि शसीति विशेषणार्थः । वस्तुतस्तु एकतरो न पठितुं योग्यः एकेनैव द्वितीयवारणात् ॥
(सरूपाणामेकशेष एकविभक्तौ ) देवौ । देवाः ॥ ( सुबोधिनी)-सरूपाणामेकशेष एकविभक्तौ ॥ एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥रूप्यते बोध्यत इति रूपमर्थः। समानं रूपं येषां ते सरूपाः । सहादित्वात्समानस्य सादेशः। तया समानं रूपं स्वरूपं येषां ते सरूपाः सरूपाश्च सरूपाश्चेति सरूपास्तेषामित्येकशेषेण व्याख्यानम् ॥ एकविभक्ताविति विभक्तिसारूप्ये उपलक्षणं न त्वेकशेष निमित्तम्। एवं च नैमित्तिकत्वेनान्तरंगोऽयमेकशेषः स्याद्युत्पतेः प्रागेव प्रवर्तते । यद्येतन्नारभ्यते तार्ह प्रत्येकं विभक्तिः स्यात् द्वन्दश्च प्रवर्तत । आरब्धे त्वेकशेषो भवति न तु द्वन्दः अनेकपदाभावात् ॥ ननु स्यायुत्पत्तेः प्रागेकशेषप्रवृत्तौ शिष्यमाणं यत्प्रातिपदिकं तदेकमेवार्थ बोधयतीति द्विवचनाद्युत्पत्तौ देवी देवा इत्यादि न सिध्येत् । उच्यते । शिष्यमाणो लुप्यमानार्थ कथयति । एकशेषस्य वृत्तिषु पाठात् । परार्थाभिधानं वृत्तिरिति ॥ अत एव लुप्तेऽपि प्रत्यये लिट् धुक् इत्यादौ कर्ता प्रतीयते॥ एकस्यां विभक्तौ परतः सरूपाण्येवेति किम् । मातृशब्दयोजननीपरिच्छेत्तृवाचिनो कशेषो भवति ।मातृभ्यां मातृभिरित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात् ॥ नन्वेवं पयः पयो नयति देवदेव इत्यादावतिप्रसङ्गः स्यात् । सह विवक्षायामेकशेषः प्रवर्तते इतरेतरयोगे इन्दस्य विषये इत्यर्थो नान्यत्र।
( अम्शसोरस्य ) समानादुत्तरयोरमशसोरकारस्य लोपो भवति ॥ देवम् । देवौ । शसः शकारः शसीति विशेषणार्थः ॥
(सुबोधिनी)-अम्शसोरस्य ॥ समानार्लोिपोऽधातोरित्यतः समानादिति लोप इति अधातोरिति चानुवर्तते अधातोः समानात्परयोरमशसोरकारस्य लोप: स्यात्॥