________________
[ तद्धितप्र० ]
टीकाद्वयोपेता ।
( २९५ )
'वोsव्यस्वरे' इत्यतः स्वरे इत्यनुवर्त्य जातावेकवचनं बोध्यम् । तथा च स्वरेषु य आदिस्वरस्तस्य वृद्धिरिति व्याख्येयम् । व् च ण् च णौ णौ इतौ यस्य स गत् तस्मिन् प्रकरणात्तद्धितस्यैव विशेषणम् । अत्र णितीति वा जितीति वा एकमेव कर्तव्यं सर्वत्र णकार एव ञकार एव वाऽनुबन्धत्वेन कार्य इत्युक्तिस्तु अनेकस्थलेऽनुबन्धव्यत्यासकरण क्लेशादुपेक्षिता ॥ नन्वा - दोति च वृद्धिरित्येवास्तु किं स्वरग्रहणेनेति चेत्सत्यम् । हसस्य वृद्धिग्रहणेन वारण संभवेऽपि यत्रादावेकस्वरः स्यात्तत्रैव वृद्धिर्न त्वादिहसात्परस्य स्वरस्येति शङ्कानिरासाय स्वरग्रहणस्यावश्यकत्वात् । आदित्वं तु यस्मात्पूर्वं नास्ति तत्त्वम् । एवमन्तत्वमपि यस्मात् परो नास्ति तत्त्वमेव । इत्थं च व्यपदेशिवद्भावो नापेक्ष्यः । यदि तु सत्यन्यस्मिन्नित्यपि विशेषणमुपादेयम् तदा व्यपदेशिवद्भावेनैकस्वरस्य सिद्धिः ॥
( वोsव्यस्वरे ) उवर्णस्यौतश्वाव् तद्धितस्य यकारे स्वरे च ॥ उपगोरपत्यमौपगवः । वैदुषः । वासिष्ठः । गौतमः । भार्गवः । आंगिरसः । बैदः । और्वः । वार्त्रघ्नः ॥
( सुबोधिनी ) - वोsव्यस्वरे || उश्व ओश्वानयोः समाहारो वो । एकत्वे द्विगुद्वन्द्वाविति नपुंसकत्वेऽपि न ह्रस्वः । अनुकार्यस्वरूपस्पष्ट प्रतिपत्त्यर्थत्वात् ॥ यश्च स्वरश्च तयोः समाहारः यस्वरं तस्मिन् यस्वरे तद्धितसंबन्धिनि ॥ अत्रौकारस्य स्वरे अविसिद्धे यकारार्थं तद्ग्रहणम् । वस्तुतस्तु क्वचिद्यकारेऽपि स्वरकार्यातिदेशादेव सिद्धिरित्योग्रहणं व्यर्थमिति ध्येयम् ॥ गामुपगत इत्युपगुः । नाम्नश्चेति समासः । गोरिति ह्रस्वः । यादव विशेषस्य उद्धवस्य पूर्वजः कश्चित् । "उद्धवं प्रकृत्योपगविर्जगाम ॥” इति भागवतात् || उपगोरपत्यमिति अणः प्रयोगे उक्तार्थानामप्रयोग इति न्यायादपत्य शब्दस्याप्रयोगः । वा टाङचोरित्यतो वेत्यनुवर्तते । तेन पक्षे षष्ठीसमासोऽपि । उपग्वपत्यमिति । समासस्य वैकल्पिकत्वाद्वाक्यमपि । औपगवः । स्त्रियां तु जातेरितीप् । औपगवी || अन्वये किम् । वस्त्रमुपगोरपत्यं चैत्रस्य ॥ विदुषोऽपत्यं वैदुषः ॥ वसिष्ठस्य ऋषेरपत्यं वासिष्ठः ॥ गौतमस्य ऋषेरपत्यं गौतमः ॥ भृगोर्ऋऋषेरपत्यं भार्गवः ॥ अंगिरस ऋषेरपत्यम् आंगिरसः ॥ विदस्यापत्यं बैदः ॥
स्थापत्यम् और्वः ॥
( तत्त्वदी ० ) - वोsव्यस्वर इति || वो अबू यत्वरे इतेि छेदः । उश्व ओश्व एतयोः समाहारः वो । एकत्वे द्विगुद्वन्द्वावित्यस्यानित्यत्वान्नपुंसकाभावः । नपुंसकत्वं वा हस्वस्यैवानि - त्यत्वम् । यश्चस्वरश्च यस्वरं तस्मिन् । अत्र ओकारस्य स्वरे अविधानस्य सिद्धत्वेऽपि यकारार्थमोग्रहणस्यावश्यकत्वात् तद्ग्रहणम् । वस्तुतस्तु क्वचिद्यकारेऽपि स्वरकार्यातिदेशादसिद्धिरित्यो कारग्रहणं न कर्तव्यम् । यस्वरयोश्च प्रकरणात्तद्धितयोरेव ग्रहणम् ॥ उपगोरपत्य