________________
[ समासप्र. ] टीकाद्वयोपेता।
(२५१) आधारे वुण प्रत्ययो भवतीति । कर्तरि षष्ठी ॥ वर्तमानार्थक्तेन सह षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राज्ञामिति कर्तरि षष्ठी॥
(क्वचिदमाद्यन्तस्य परत्वम् ) रायमतिकान्तोऽतिराः । नावमतिक्रान्तोऽतिनौः । पूर्व भूतो भूतपूर्वः । कायस्य पूर्वः पूर्वकायः । अपरकायः। अधरकायः। उत्तरकायः । अह्नो मध्यं मध्याह्नः। सायाह्नः। मध्यरात्रः । पश्चिमरात्रः । अर्द्धपिप्पली ॥
(सुबोधिनी)-क्वचिदमाद्यन्तस्य परत्वम्॥ तत्पुरुषे क्वचिदमाद्यन्तस्य पदस्य परनिपातो भवति ॥ रायमतिक्रान्त इति अतिराः। अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः। रै स्भि' इत्यनेनाकारः।। पूर्व भूत इति भूतपूर्वः ॥ पूर्वापराधरोत्तरावयवा एकसंख्यावयविना समस्यन्ते । कायस्य पूर्व इति पूर्वकायः ॥ कायस्यापरा देश: अपरकायः ॥ कायस्याधरो देश इति अधरकायः॥ कायस्योत्तरो देशः इति उत्तरकायः॥ एकदेशः कालवाचिना समस्यते। अह्नो मध्यमिति मध्याह्नः। राजाहःसखिभ्य इति टः । नो वेत्युपधालोपः ॥ अह्नः पूर्व इति पूर्वाहः ॥ अह्नः साय इति सायाह्नः। स्यतर्घत्रि अवसानवचनः सायशब्दः ॥रात्रेमध्यमिति मध्यरात्रः ॥ रात्रे: पश्चिममिति पश्चिमराः। टाडका इत्यनेनाप्रत्ययः॥ नपुंसकोऽर्द्धशब्दोऽवयविना सह समस्यते । “पुस्योऽदै समेंऽशके" इत्यमरः॥अर्द्ध पिप्पल्या इति अर्द्धपिप्पली । द्वन्द्वतत्पुरुषयोरिति परवल्लिङ्गत्वात् स्त्रीत्वम् । भाष्ये तु अर्द्धपिप्पलीति कर्मधारये उक्तम् । समुदाये दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते इति न्यायात् ॥
( तत्त्वदी० )-क्वचिदमाद्यन्तस्येति ॥ अन्त्यस्वरादिष्टिरिति ज्ञापकादिति भावः ।। अन्ते भवोऽन्त्यः । स्वरेषु अन्त्यः अन्त्यस्वरः । स आदिर्यस्य सः ॥
(क्वचिद्वा) द्वितीयं भिक्षायाः द्वितीयभिक्षा-भिक्षाद्वितीयम् । तृतीयभिक्षा-भिक्षातृतीयम् । चतुर्थभिक्षा-भिक्षाचतुर्थम् । तुरीयभिक्षा-भिक्षातुरीयम् । जीविकाप्राप्तः-प्राप्तजीविकः । आपन्नजीविकः-जीविकापन्नः॥ __ (सुबोधिनी )-क्वचिद्वा ॥ द्वितीयतृतीयचतुर्थतुर्याण्येकदेशिना सह समस्यन्ते अमाद्यन्तस्य परनिपातश्च वा ॥ द्वितीय भिक्षाया इति द्वितीयभिक्षा-भिक्षाद्वितीयम् ॥ तृतीय भिक्षाया इति तृतीयभिक्षा-भिक्षातृतीयम् ॥ चतुर्थे भिक्षाया इति चतुर्थभिक्षा-भिक्षाचतुर्थम् ॥ तुरीयं भिक्षाया इति तुरीयभिक्षा-भिक्षातुरीयम् ॥ द्वितीयान्तस्य प्राप्तापन्नयोः परयोर्वा परनिपातः । जीविकां प्राप्त इति जीविकाप्राप्तः । प्राप्तजीविकः । अन्यार्थे इति हस्वः । द्विगुप्राप्तापन्नेति वक्ष्यमाणेन परवल्लिङ्गं न ॥