________________
( २५२) सिद्धान्तचन्द्रिका। [समासप्र० ]
(तत्त्वदी०)-प्राप्तजीविक इति ॥ तत्पुरुषसंज्ञाविधिसामर्थ्यात्तथा व्यवहारोऽनुमातव्यः । स च द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गमित्यादि तस्य च ज्ञापकसिद्धत्वात् ज्ञापकसिद्धं न सर्वत्रेति वचनादत्र न परस्य लिङ्गम् ॥ (परिमाणवता सह समस्यतेऽमायन्तस्य परनिपातश्च तत्पुरुषे)
( सुबोधिनी )-परिमाणवता सह समस्यतेऽमाद्यन्तस्य परनिपातश्च तत्पुरुषे ॥ परिमीयते परिच्छिद्यते येन तत्परिमाणं परिमाणमस्यास्तीति परिमाणवान् । तेन यस्य हि जननादूर्वं मासो जातः स मासजात उच्यते । इह विग्रहे षष्ठीनिर्दिष्टस्य प्राधान्यं द्योतयितुं यस्येत्युक्तम् । यद्यपि मासो जातो यस्येति बहुव्रीहिणाऽपि सिद्धयति बहुव्रीहौ कचिन्नति क्तान्तस्य पूर्वनिपातनिषेधात् । तथापि जातचतो मासो यस्येति स मासजातवानित्याद्यर्थमिदम् ॥
(समासे क्वचिदैकपद्यं णत्वहेतुः ) शराणां वनं शरवणम् । आम्रागां वनमाम्रवणम् । प्लक्षवणम् । शूर्पणखा ॥
(सुबोधिनी) समासे क्वचिदैकपद्यं णत्वहेतुः॥ एकपदस्य भाव ऐकपद्यम् । समासे क्वचित् णत्वस्य हेतुरस्ति ॥ शराणां वनमिति शरवणम् ॥ आम्राणां वनमिति आम्रवणम् ॥ प्लक्षाणांवनमिति प्लक्षवणम् ॥ शूर्पणखा। अत्र संज्ञायांणत्वम्॥ __ (क्वचिद्वा ) माषवापिणौ-माषवापिनौ । व्रीहिवापाणि-व्रीहिवापानि । व्रीहिवापण-व्रीहिवापेन । सुरापाणम्-सुरापानम् । अक्षेषु शौण्डोऽक्षशौण्डः ॥
(सुबोधिनी)-क्वचिद्वा ॥ क्वचित्समासे णत्वं वा भवति ॥ माषान् वारंवार वपतीति माषवापी । 'बहुलमाभीक्ष्ण्ये' इति णिनिः ॥ ब्रीहीन्वपतीति कार्येऽणित्यण ॥ व्रीहिवापं तानि व्रीहिवापाणि । णत्वाभाव व्रीहिवापानीति ॥ ब्रीहीन वारंवारं वपतीति व्रीहिवापः तेन व्रीहिवापेण । णत्वाभावे व्रीहिवापेनेति ॥ शौण्डधूर्तकितवव्याडप्रवीणसंवीताध्यन्तरपटपंडितकुशलनिपुणसिद्धशुष्कपक्वबन्धैः सह सप्तम्यन्तं समस्यते । अक्षेषु शौण्डः प्रवीण इति अक्षशौण्डः॥
(पात्रेसमितादयो निपात्याः) पात्रेसमिताः। गेहशूरः। गेहेनर्दी । (सुबोधिनी)-पात्रेसमितादयो निपात्याः॥ पात्रेसमितादयः शब्दा निन्दार्थे निपात्यन्ते ॥ पात्रेसमिताः । भोजनसमये एव संगता भवन्ति न तु कार्ये । सम्पू.