________________
सिद्धान्तचन्द्रिका । (तत्वदी०)-हस्वदीर्घप्लुतभेदा इति॥हस्वश्व दीर्घश्च प्लुतश्च तेषां ये भेदा उदात्तादयस्तेषां सवर्णसंज्ञाइत्यर्थः॥हस्वादिभिर्भेदशब्दस्य कर्मधारयो वायत्तुवासुदेवेन ह्रस्वादिभेदान्तस्यद्वन्द्वं कृत्वा व्याख्यातं तदसत् । अनन्तरग्रहणस्य वैयर्थ्यप्रसंगात् ॥ एतेषामिति॥अनन्तरोक्तानाम् । अइउऋलवर्णानामेवांगुल्या निर्देशः।समानो वर्णो येषां ते सवर्णा इत्यन्वर्थसंज्ञाश्रयणात्सजातीया इति।तथाचाकारस्याकारेणैव सावर्ण्य न तु विजातीयैरीकारादिभिरिति बोध्यम् ॥ननु अन्वर्थसंज्ञाबलादेवात्रसवर्णसंज्ञासिद्धौतद्विधायकं सूत्रंकिमर्थमिति चेन्नासन्ध्यक्षराणामप्यन्वर्थसंज्ञया सवर्णसंज्ञा स्यादिति तन्निरासार्थमिदं सूत्रम् । यदि त्वैऔइति पृथग्निर्देशो ज्ञापकस्तदेदं मन्दप्रयोजनम् ॥
(ऋलवर्गौच) एकमात्रो ह्रस्वः । द्विमात्रो दीर्घः त्रिमात्रः प्लुतः ॥ ( सुबोधिनी) ऋलवर्णौ च ॥ जातिस्थानाभ्यां भिन्नत्वेन सावर्ष्याप्राप्तौ विध्यर्थं वचनम् । पदान्तानां समानानामिति प्रकृतिभावः । एतावपि सवर्णसंज्ञकावाचार्येण कथ्येते । सवर्णसंज्ञाप्रदेशाः सवर्णे दीर्घः सहेत्यादयः॥ तेषां भेदानाह ॥ एकमात्रो ह्रस्व इति ॥ मात्राशब्देनाक्षिस्पन्दनप्रमाणः काल उच्यते । “मात्रं त्ववधृतौ स्वार्थे कात्स्न्यै मात्रा परिच्छदे।अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे॥काले वृत्तेच"इति हेमचन्द्रः । एका मात्रोच्चारणकालो यस्य स एकमात्रो ह्रस्वसंज्ञः कथ्यते । हसति हसते वा दीर्घापेक्षयेति ह्रस्वः ॥ द्विमात्रो दीर्घः ॥ द्वे मात्रे उच्चारणकालो यस्य स द्विमात्रो दीर्घसंज्ञः कथ्यते।हणाति दीर्यते वा मुखमिति दीर्घः॥त्रिमात्रः प्लुतः॥तिस्रो मात्रा उच्चारणकालो यस्य स त्रिमात्रः प्लुतसंज्ञः कथ्यते॥प्लवतेलंघते हस्वदीर्घाविति प्लुतः॥
(तत्त्वदी०)-ऋलवर्णाविति॥आ च आ च ऋलौ तौ च तौ वर्णाविति।यद्वा आ चलवर्णश्च तौनिनु ऋलवर्णावित्यनेनैव ऋवर्णलवर्णयोःसावादेव ऋकारोपदशेनैव लकारोपदेशे सिद्धे अइउऋल समानाः इति सूत्रेलकारग्रहणं व्यर्थमितिचेत्सत्यम्।ऋवर्णलवर्णयोःसावर्ण्यस्यानित्यत्वज्ञापनाय पृथक् लकारग्रहणम् इत्यवधेयम्।तत्फलंतु हे 'क्लप्तशिख' इत्यत्र 'गुरोरनृतः'इत्यनेन प्लुतत्वे कर्तव्ये ऋकारपर्युदासेन लकारस्य न पर्युदासः ।ह्रस्वादिसंज्ञाश्च लोकप्रसिद्धा इत्याह ।। एकमात्र इति ॥ मीयते इति मात्रा उच्चारणकालः।एका मात्रा यस्येति विग्रहः। एवमन्यदपि ।
(एऐ ओऔ सन्ध्यक्षराणि). ( सुबोधिनी )-एऐओऔ सन्ध्यक्षराणि ॥ पूर्ववद्वाक्यत्वात्पञ्चपदमिदं सूत्रम् ॥ अत्रापि सन्ध्यभावोऽविवक्षितत्वात् । इदमपि कार्यद्वयं षक्ति । तत्किम् । एकारादिक्रम सन्ध्यक्षरसंज्ञां च । सन्धौ जातान्यक्षराणि सन्ध्यक्षराणि । सन्ध्यक्षरसंज्ञाप्रदेशाः संध्यक्षराणामित्यादयः॥ . (तत्त्वदी०)-एऐओऔ संध्यक्षराणीति ॥ ननुसंधेर्जातान्यक्षराणि सन्ध्यक्षराणीत्यन्वर्थसंज्ञाबलादेव सन्ध्यक्षरसंज्ञासिद्धौ तत्संज्ञाविधायकं सूत्रं व्यर्थमिति चेन्नायकारादीनामपि संधिजत्वाविशेषेण सन्ध्यक्षरसंज्ञा स्यादिति तन्निरासार्थमिदं सूत्रम्।एषु च भागद्वयसत्त्वेऽपि नरसिंहवत्