________________
[संज्ञाप्रकरणम् ] टीकाद्वयोपेता।
(७) जात्यन्तराक्रान्तत्वेन न भागकार्यम् । तेनामे इदं वायो उदकमित्यत्र सवर्णदीर्घत्व न । अत्रवर्णपरिगणनसंज्ञाविधानरूपकार्यद्वयस्य वृद्धकुमारीवरन्यायेन सिद्धेर्न वाक्यद्वयम्।एवं पूर्वसूत्रेऽपि बोध्यम् ।
(उभये स्वराः ) अकारादय एकारादयश्च स्वरा उच्यन्ते ॥ ( सुबोधिनी )-उभये स्वराः॥ उभाववयवौ येषां ते उभये तयडयटौ संख्याया अवयवे इत्ययट्र। “स्वरो नासासमीरेस्यान्मध्यमादित्रिकस्वरे । उदात्तादावकारादौ षड्जादौ च ध्वनौ पुमान् ॥” इत्याद्यकारादिभिन्नार्थान्तरवारणायेदम् । हस्वदीर्घ प्लुता भेदा विशेषव्यक्तयो येषां ते हस्वदीर्घप्लुतभेदाः एतादृशा अकारादयं एकारादयश्चाचार्येण स्वरसंज्ञकाः कथ्यन्ते । स्वयं राजन्ते शोभन्ते इति स्वराः । 'राजृ दीप्तो' अस्मान्नानीति डप्रत्ययः । एकाकिनोऽपि प्रायोऽर्थप्रतिपादने समर्थाः इत्यर्थः ॥ स्वरा इति बहुवचनं तु प्रत्येकं संज्ञाविधानार्थ ज्ञेयम् ॥ ननु 'उभये' इति ग्रहणं व्यर्थम् । अकारादीनामेकारादीनां चानुवृत्त्यैव लब्धत्वात्। उच्यते । 'अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति न्यायोऽनेन ज्ञाप्यते । अनन्तरत्वादेकारादीनामेवानुवृत्तिःस्यात् न त्वकारादीनामन्तरितत्वादिति । स्वरसंज्ञाप्रदेशाः'इ यं स्वरे' इत्यादयः॥
(तत्त्वदी.)-उभयइति ॥ ननु ते स्वरा इत्येव किमिति न सूत्रितं तच्छब्दस्य पूर्वपरामार्शवनाकारादीनामेव लाभादिति चेन्न अनन्तरोक्त संध्यक्षराणामेव तच्छब्देन परामर्शः स्यादिति शङ्काया निवृत्तये उभयग्रहणस्यावश्यकत्वात् । यद्वा स्वरा इत्येवास्तु अकारादीनामनुवृत्त्यै लाभादिति चेन्न उक्तयुक्तेः । यदि तूत्तरसूत्रेऽवर्णपर्युदासेनाकाराद्यनुवृत्तिस्तदोभयग्रहणे सर्वादिप्रयोजनार्थमवेति ध्येयम् । बहुवचनं प्रत्येकसंज्ञार्थमपि त्यक्तुमुचितं समुदायस्य युगपल्लक्ष्ये प्रयोगाभावादेव तल्लाभात् । एवं पूर्वोत्तरसूत्रेष्वपि बोध्यम् । यत्तु अकारादयः पञ्च चत्वार एकारादय इति तन्न अकारादिषु न्यूनाधिकसंख्याया असंभवेन तद्ग्रहणस्यानर्थकत्वात् ॥
(अवर्जा नामिनः) अवर्णवर्जाः स्वरा नामिन उच्यन्ते ॥ (सुबोधिनी)-अवर्जानामिनः॥अश्च आश्च तयोःसमाहारःआमिति केचित्तन्मन्दम् । अइत्यनेनात्वजातेरेवाभिमतत्वात्। अंवर्जयन्तीत्यवर्जाः। वृजी वर्जने'चुरादिः। अस्मात् कार्येऽणित्यणप्रत्ययः। पूर्वसूत्रादुभये इत्यनुवर्तनीयम् । अवर्णवर्जा उभये इकारादय एकारादयश्च स्वरा नामिसंज्ञका आचार्यण कथ्यन्ते ॥ नमनं नामः। भावे घञ् । नामोऽस्यास्तीति नामी। नामिसंज्ञाप्रदेशा 'नामिनो रः' इत्यादयः । किंच स ह्रस्वदीर्घप्लुतरूपस्वरःप्रत्येकमुदात्तादिभेदेन त्रिधाऽस्ति । ह्रस्वस्वर उदात्तःहस्वस्वरोऽनुदात्तः २ ह्रस्वस्वरः स्वरितः ३ । दीर्घस्वर उदात्तः १ दीर्घस्वरोऽनुदात्तः२ दीर्घस्वरः स्वरितः ३ । प्लुतस्वर उदात्तः१प्लुतस्वरोऽनुदात्तः२ प्लुतस्वरःस्वरितः३॥ एवं नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकभेदाभ्यां पुनःस द्विधाऽस्ति । तदित्यम् । अ इ उ ऋ एषां चतुर्णा वर्णानां प्रत्येकमष्टादश भेदाः सन्ति । लवर्णस्य द्वादश भेदा