________________
(३२२) सिद्धान्तचन्द्रिका।
[तद्धितप्र०] (अजाविभ्यां थ्यः) अजथ्या । अविथ्या ॥ (सुबोधिनी)-अजाविभ्यां थ्यः॥ आभ्यां थ्यप्रत्ययः स्याद्धितेऽर्थे ॥ अजेभ्यः अजाभ्यो वा हिता अजथ्या।थ्यप्रत्ययस्य तरादौ पाठात् पुंवद्भावे रूपं तुल्यम् । अविभ्यो हिता अविथ्या॥ सर्वस्मै हितं सार्वम् । अण् । सार्वीयम् । णीयः। वृद्धिः॥ (तत्त्वदी० )-अजथ्येति ॥ अजायै हिता।
(अस्त्यथै मतुः) नाम्नः ॥ गावोऽस्यास्मिन्वा सन्ति गोमान् । श्रीविद्यतेऽस्य श्रीमान् । विदुष्मान् । गोमती ॥
(सुबोधिनी)-अस्त्यर्थे मतुः॥ प्रथमान्तान्नाम्नो मतुप्रत्ययो भवति अस्यास्तीत्यर्थे अस्मिन्नस्तीत्यर्थे च ॥ उदित्वात्पुंसि ब्रितो नुमिात नुम् । स्त्रियां चवित इतीम् । क्लीवे शौ नुम् । “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ सबन्धेऽस्तिविवक्षायां भवन्ति मत्विनादयः ॥१॥" अस्तीत्यस्य विवक्षायां ये मत्वादयः प्रत्यया विधीयन्ते ते भूमादिषु विषयेषु भवन्ति भूमा बहुत्वम् यथा गावोऽस्यास्मिन्वा सन्ति स गोमान् ॥ निन्दायां यथा । ककुदावर्तिनी कन्या ॥ प्रसंशायां यथा । रूपवान् ॥ नित्ययोगे यथा । क्षीरिणः वृक्षाः ॥ अतिशायने यथा । उदरिणी कन्या ॥ संबन्धः संसर्गः । संयोग इति यावत् ।तत्र यथा । दण्डी पुरुषः ॥ श्रीरस्ति अस्यास्मिन्वा श्रीमान् ॥ विद्वांसोऽस्यास्मिन्वा सन्ति वसोर्व उरित्युत्वे षत्वम् । विदुष्मान् देशः॥वित इतीप् । गोमती॥
(तत्त्वदी०)-अस्त्यर्थे मतुरिति ॥अस्तीत्यत्र लिङ्गवचने अविवक्षिते। कालस्तु विवक्षितः। तथा चास्तिकर्तृभूतादुक्तानाम्नः भूमादावार्थे मतुप्रत्ययः। अस्तीत्यनेन स्वाम्याधारयोराक्षेपः। एवंच प्रथमान्तानाम्नोऽस्तिकर्तुरस्यास्मिन्नित्यर्थे मतुरिति पर्यवसितोऽर्थः । उक्तं च । “ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां जायन्ते मत्विनादयः॥" अत्र दीक्षिताः । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः ॥ भूमा बहुत्वम् । तच्चापेक्षा यस्य यावता तस्य तावता बोध्यम् । भूम्नि गोमान् ॥ निन्दायां ककुदावतिनी कन्या ॥ प्रशंसायां रूपवान् ॥ नित्ययोगे क्षीरिणो वृक्षाः ॥ अतिशायने उदरिणी कन्या ॥ संसर्गे दण्डी संसर्गः संयोगः तेन संयुक्त एव न तु गृहावस्थितोऽपि दण्डः एतेन एतदुदाहृत्य अस्त्यर्थोदाहरणं चोक्तमित्युक्तवन्तो वासुदेवादयो निरस्ताः । यद्यपि ययस्य तत्तस्मिन्नपि यद्यस्मिन् तत्तस्य भवत्येवेत्युभयनिर्देशो व्यर्थस्तथापि वृक्षवान्पर्वतः पुत्रवाश्चैत्र इत्यत्र पर्वते वृक्षसंबन्धस्य चैत्रे पुत्राधारत्वस्य चासत्त्वादुभयनिर्देशः । असन्निहितपुत्रस्यापि पुत्रवानिति प्रतीतेः सामीपिकाधारत्वस्य विवक्षणादिति ॥