________________
[ तद्धितप्र० ]
टीकाद्वयोपेता ।
(३२३)
( अइकौ च मत्वर्थे ) नाम्नः अः इकस्त्वदन्तात् ॥ अर्शसः ॥ वैजयन्तः । दण्डिकः । धनिकः ॥
( सुबोधिनी ) - - अइकौ च मत्वर्थे ॥ प्रत्ययभ्रमनिरासाय संधिरत्र न कृतः ॥ अइकाविति निर्देशन समासे संहिताया अनित्यत्वं ज्ञापितम् । तेन पदान्तानां समानानामृतीत्यनेन सप्तऋषीणामित्यत्र वा संहिता भवति ॥ अर्शोऽस्यास्मिन्वाऽस्ति अर्शसः ॥ वैजयन्ती पताकाऽस्यास्मिन्वाऽस्ति वैजयन्तः । अः ॥ इकप्रत्ययस्तु अकारान्तादेव | दण्डोऽस्यास्मिन्वाऽस्ति दण्डिकः ॥ धनमस्यास्मिन्वाऽस्ति धनिकः । इकः ॥
( तचदी ० ) - अइकाविति ॥ अश्व इकश्ध तौ । संध्यभावोऽसंदेहार्थः ॥ ( मान्तोपधाद्वत्विनौ ) मान्तान्मान्तोपधादवर्णान्तादवर्णोपधाच्च वतुरिनस्त्वदन्तात् || किम्वान् । लक्ष्मीवान् । धनवान् । विद्यावान् । यशस्वान् । भास्वान् | क्षेत्री । दण्डी ॥
(सुबोधिनी) --मान्तोपधाद्वत्विनौ ॥ मच अश्व मौ अन्तश्च उपधा च अन्तो मौ अन्तोष यस्य तत् मान्तोपधं तस्मान्मान्तोपधात् प्रथमान्ताद्वत्विनौ प्रत्ययौ भवतः । अस्त्यर्थे । इन् प्रत्ययस्तु अकारान्तादेव । मतोरपवादोऽयं विधिः ॥ यथासंख्यं तु न गुरुकरणात् । तथाहि । म् अन्ते यस्य तन्मन्तम् । अ उपधा यस्य तत् ओषधं मन्तं च ओषधं च अनयोः समाहारो मन्तौषधं तस्मान्मन्तोपधात् । इत्थं हि स्पष्टं यथासंख्यं लभ्यते । तदकरणाद्यथासंख्याभावः ॥ वतोरुकारो वितो नुमिति नुमर्थः ष्ट्रत्रित इतीर्थश्च । किमस्यास्मिन्वाऽस्ति किंवान् ॥ लक्ष्मीरस्यास्मिन्वाऽस्ति लक्ष्मीवान् ॥ धनमस्यास्मिन्वाऽस्ति धनवान् ॥ विद्याऽस्यास्मिन्वाऽस्ति विद्यावान् ॥ यशोऽस्यास्ति अस्मिन्वाऽस्ति यशस्वान् ॥ भाः अस्यास्मिन्वाऽस्ति भास्वान् ॥ क्षेत्रमस्यास्मिन् वाऽस्ति क्षेत्री ॥ दण्डोऽस्यास्मिन्वाऽस्ति दण्डी ||
( तत्त्वदी ० ) - मान्तोपधादिति || मश्व अश्व मौ अन्तश्च उपधा च अन्तोपधे मौ अन्तोपधे यस्य तन्मान्तोपधं तस्मात् । यथासंख्यं नाशङ्कनीयं लाघवमुत्सृज्य गौरवस्यात्राहतत्वात् । तथाहि । मन्तौपधादित्येवोच्येत । न् अन्तं यस्य तन्मन्तम् अ उपधा यस्य तत् ओषधं मन्तं च ओषधं च मन्तौपधं तस्मात् ओदौतोर्लाघवगौरक्योर्विशेषाभावात् । इत्याशयेनाह-मकारान्तादित्यादि ॥ यशस्वानिति ॥ तान्तसान्तयोर्हसादावस्त्यर्थे अपदान्तता बाच्या अतो न विसर्ग: । यस्वरयोस्तु सर्वेषाम् । भवदीय इत्यत्र तु सहादित्वाद्दत्वं बोध्यम् ॥ ( यवादेर्न ) यवमान् । भूमिमान् ॥