________________
[तद्धिता टीकाद्वयोपेता।
(३२१) (खलगोरथेभ्य इनित्रकट्याः) खलिनी । गोत्रा । रथकटया ॥ (सुबोधिनी)-खलगोरथेभ्य इनित्रकटयाः॥ खलादिभ्यः क्रमात् एते स्युः॥ खलानां समूहः। व्रण इतीप् । खलिनी॥ गवां समूहो गोत्रा।।रथानां समूहोरथकटया।
(तत्त्वदी० )- खलगोरथेभ्य इति ॥ यथासंख्यं प्रत्ययाः ॥ खलिनीति ॥ खलानां समूहः । एवमन्यत्रापि ॥
(हिते च ) सूर्याय हितः सूरीयः । आत्मनीनः । विश्वजनीनः॥ मातृभोगीणः । अपूपाय हितम् अपूप्यम्--अपूपीयम् । आमिक्ष्यम्आमिक्षीयम् । शङ्कव्यम् । गव्यम् । हविष्यम् । खल्यम् । यव्यम् ॥
( सुबोधिनी)--हिते च ॥ अणादयः प्रत्यया हितेऽर्थे च स्युः ।। सूर्याय हित इति सर्यागस्त्ययोरीये ईपि चेति यलोपः सूरीयः। णीयः॥ आत्मने हितः। नो वेत्यस्य टिलोपो न । आत्मनीनः । ईनः ॥ विश्वजनाय हितः विश्वजनीनः । कर्मधारयादेवेष्यते । विश्वस्य जनः सर्वसाधारणो वेश्यादिरिति तत्पुरुषे विश्वो जनोऽस्येति बहुव्रीहौ च विश्वजनाय हितं विश्वजनीयम् । णीय एव । मातुर्भोगः शरीर मातृभोगः। मातृमागाय हितः मातृभोगीणः । सम् । 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इत्यमरैण यद्यप्यहरित्युक्तं तथापि प्रयोगबाहुल्याभिप्रायम् । तच्छक्तिस्तु शरीरमात्रऽप्यस्ति इत्याकरः ॥ अपूपेभ्यो हितम् अपूप्यं चूर्णम् । ण्यः । णितो वेति न वृद्धिः। अपूपीयः । णीयः ॥ आमिक्षायै हितं ण्यणीयौ । आमिक्ष्यम्-आमिक्षीयम् । 'हविः सान्नाय्यमामिक्षा शतोष्णक्षीरज दधि' इति हैमः ॥ आमीयते क्षिप्यते दधि यत्र सा आमिक्षा ॥ शङ्कवे हितं शङ्कव्यम् । ण्यः। णितो वेति न वृद्धिः। वोऽपित्यव ॥ गवे हितं गव्यम ॥ हविषे हितं हविष्यम् ॥ खलाय हितं खल्यम्। यवेभ्यो हितं यव्यम् ॥ ( तत्त्वदी० ) --सूरीय इति ।। सूर्यागस्त्ययोरितीये यलोपः ॥ (शुनो वस्य उर्वा च दीर्घः) शुने हितं शून्यम् शुन्यम् ॥ . (सुबोधिनी)-शुनो वस्य उर्वा च दीर्घः ॥ श्वनशब्दस्य वकाराकारयोरुत्वं भवति उतश्च वा दीर्घः । नो वेति टिलोपो न भवति वाशब्दस्य व्यवस्थार्थत्वात् ॥ शून्यम् । शुन्यम् ॥
(उधसो नङ्) ऊधन्यः ॥ ( सुबोधिनी)-ऊधसो नङ्॥ उधस्शब्दस्य नङादेशो भवति ॥ ङित्त्वादन्तस्प स्थाने नङ । अकार उच्चारणार्थः॥ उधसे हितः। णितो वेति न वृद्धिः। उधन्यः।।
(तत्त्वदी०)-ऊधन्य इति ऊधसे हितः ॥