SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (२३) सिद्धान्तचन्द्रिका | 'षिद्भिदामङ्' इति कर्मण्यङ् ॥ उपक्रम्यते इत्युपक्रपः । कर्मणि घञ् । मान्तस्य सेटो न वृद्धिरिति वृद्धयभावः । उपज्ञा च उपक्रमश्च उपज्ञोपक्रमौ उपज्ञोपक्रमौ अन्ते यस्य स उपज्ञोपक्रमान्तः । " उपज्ञा ज्ञानमाद्यं स्याद् ज्ञात्वाऽऽरम्भ उपक्रमः" इत्यमरः ॥ उपज्ञायमानस्योपक्रम्यमाणस्य च प्रथमस्य भावः प्राथम्यं चेद्यदि आख्यातुं वक्तुमिष्यते वाञ्छ्यते । पाणिनेरिति कर्तरि षष्ठी । नन्दस्योपक्रम इति नन्दोपक्रमम् ॥ [ समासप्र• ] (छायान्तश्च पूर्वपदार्थबाहुल्ये) इक्षूणां छाया इक्षुच्छायम् ॥ (सुबोधिनी ) - छायान्तश्च पूर्वपदार्थबाहुल्ये ॥ छायान्तस्तत्पुरुषो नपुंसकं स्यात् पूर्वं च तत्पदं च पूर्वपदं पूर्वपदस्यार्थः पूर्वपदार्थ: बहुलस्य भावो बाहुल्यम् पूर्वपदार्थस्य बाहुल्यं पूर्वपदार्थबाहुल्यं तस्मिन् ॥ सेनासुराच्छायेत्यस्य विकल्पस्थापवादोऽयम् ॥ ( दी ० ) - इक्षुच्छायमिति ॥ “इक्षुच्छायानिषादिन्यः" इत्यत्र त्वाङ्प्रश्लेषो बोध्यः ॥ (राजपर्यायपूर्वो रक्षः पिशाचादिपूर्वश्च सभान्तः क्लीबम ) इनसभम् । ईश्वरसभम् । नेह | राजसभा | रक्षः सभम् । पिशाचसभम् || (सुबोधिनी) - राजपर्यायपूर्वो रक्षः पिशाचादिपूर्वश्च सभान्तः क्लीबम् ॥ राजपर्यायपूर्वः सभान्तस्तत्पुरुषो रक्षःपिशाचादिपूर्वः सभान्तस्तत्पुरुषश्च नपुंसकं स्यात् ॥ इनेश्वरशब्दौ राजपर्यायौ । इनस्य सभा इनसभम् । ईश्वरस्य सभा ईश्वरसभम् || राजपर्याय पूर्व इति किम् | राजसभा | रक्षसः सभा रक्षःसभम् । पिशाचस्य सभा पिशाचसभम् ॥ O ( तत्वदी ० ) - इनसभमिति || ' नृपतिसभामगमन्न चेयमाना' इत्यत्र तु राजविशेषवाची नृपतिशब्दो बोध्यः ॥ ( सङ्घातार्थे सभान्तः ) स्त्रीसभम् । स्त्रीसंघात इत्यर्थः ॥ ( सुबोधिनी ) - सङ्घातार्थे सभान्तः ॥ सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीवं स्यात् ॥ (सेनासुराच्छायाशाला निशान्तो वा ) ब्राह्मणसेनम् | यवसुरम् । कुडचच्छायम् गोशालम् । वनिशम् । पक्षे ब्राह्मणसेनेत्यादि । इति समासप्रक्रिया | ( सुबोधिनी ) - सेनासुराच्छायाशालानिशान्तो वा ॥ एतदन्तस्तत्पुरुषः क्लीवं स्याद्वा ॥ श्रवनिशम् । कृष्णचतुर्दशी ॥ अनजूतत्पुरुष इत्यधिकारान्नेह | दृढ
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy