________________
[ समासप्र० ] टीकाद्वयोपेता।
(२९१) पुण्याहम् । सुदिनं च तदहश्चेति सुदिनशब्दः प्रशस्तपर्यायः । मुदिनाहम् । रात्राबाहान्ताः पुंस्येवेत्यस्यापवादोऽयम् ॥
(तत्त्वदी० )-सुदिनाहमिति ॥ सुदिनशब्दः प्रशस्तपर्यायः । “ सुदिनासु निशामु कार्यमेतत्प्रविचिन्वीत विशेषतः" इत्यादिप्रयोगदर्शनात् ॥ : (संख्याव्ययाभ्यां परस्य पथः क्लीबता) त्रिपथम् । विपथम् ॥
(सुबोधिनी)-संख्याव्ययाभ्यां परस्य पथः क्कीबता ॥ आभ्यां परः कृतसमासान्तः पथशब्दः क्लीवमित्यर्थः ॥ त्रयाणां पन्था इति ऋक्पूरबधूरित्यप्रत्ययः। त्रिपथम् ॥ विरूपः पन्था इति विपथम् ॥ ननु “व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः" इत्यमरे कथं पुंस्त्वम् । उच्यते । प्रमाद एवायमिति बहवः । वस्तुतस्तु 'पथ गतौ' इत्यस्मात्पचाद्यप्रत्यये पथति व्यामोतीति व्युत्पादितः पथशब्दः । तथा च त्रिकाण्डशेषः। “वाटः पथश्चः मार्गः स्यात्" इति । अनेन समासे पुंस्त्वमुपपन्नम् । कापथ इत्यत्र कादेशस्तु ईषदर्थे बोध्यः। अथ च परवल्लिङ्गापवादत्वात्तत्पुरुषे एवंदं प्रवर्तते नान्यत्र । विपथा नगरी । बहुव्रीहिरयम् । पन्थानमतिकान्ता अतिपथा। इहापि न द्विगुप्राप्तापन्नालमिति परपदलिङ्गप्रतिषेधात् इति माधवः ॥ __ (तत्त्वदी०)-त्रिपथं विपथमिति ॥ "व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः।" इत्यमरे "विपथकापथौ" इति रभसकोशे च पथ गतावित्यस्मात्पचाये बोध्यम् । “ वाटः पथश्च मार्गः स्यात्" इति त्रिकाण्डशेषोऽप्यत्रानुकूलः ॥
( सामान्ये नपुंसकम् ) मृदु पचति । प्रातः कमनीयम् ॥ (सुबोधिनी )-सामान्ये नपुंसकम् ॥ अनियतलिङ्गविषयकमिदम् । तेनादिः पचतीत्यादौ पुंस्त्वमेव ॥ मृदु पचति । क्रियाविशेषणत्वात् द्वितीयान्तमिदम् । धातू. पात्तक्रियां प्रति हि फलांशः कर्मीभूतः । फलसामानाधिकरण्ये द्वितीया ॥ _(तत्त्वदी० )-मृदु पचतीति ॥ क्रियाविशेषणत्वाद्वितीयान्तम् । धातूपात्तभावनां प्रति फलांशः कर्मीभूतः । तथा च फलसामानाधिकरण्ये द्वितीया । सामान्ये नपुंसकमिति त्वनियतलिङ्गविषयम् । तेन आदिः पचतीत्यादौ प्रातरादिरिति पुंस्त्वमेव ॥ __ (उपज्ञोपक्रमान्तस्तत्पुरुषः क्लीबम् ) उपज्ञायमानोपक्रम्यमाणयोः प्राथम्यं चेदाख्यातुमिष्यते पाणिन्युपज्ञं ग्रन्थः। नन्दोपक्रमं द्रोणः।।
( सुबोधिनी)-उपज्ञोपक्रमान्तस्तत्पुरुषः क्लीबम् ॥ अनञ्तत्पुरुषाधिकाराऽत्र ॥ उपज्ञान्त उपक्रमान्तश्च तत्पुरुषः क्लीव स्यात् ॥ उपज्ञायते इत्युपज्ञा।