________________
[ समासप्र० ] टीकाद्वयोपेता।
(२९३) सेनो राजा । दृढा सेना यस्योत बहुव्रीहिः। असेना अविद्यमाना सेना इति नपूर्वस्तत्पुरुषः ॥ अथ शेषमाह ॥ कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपाः पञ्च वृत्तयः ॥ पञ्चानां वृत्तिरिति पूर्वाचार्यसंज्ञा । वृत्तिलक्षणमाहः॥ परार्थाभिधानं वृत्तिः॥ परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिः । यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते ॥ विग्रहलक्षणमाह ॥ वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुलौकिकः ॥ प्रयोगानोऽताधुरलौकिकः । यथा । राज्ञः पुरुष इति लालिकाविग्रहः । राजन् अस् पुरुष स् इत्यलौकिकविग्रहः ॥ नित्यसमासलक्षणमाह ॥ अविग्रहो नित्यसमासः ॥ लौकिकविग्रहरहितो नित्यसमासो ज्ञेयः। लोके यस्य विग्रहो न प्रयुज्यते इति भावः । अस्वपदविग्रहो वा । समस्यमानयावत्पदैरघटितः अस्वपदविग्रहः । समासः षड्विध इति प्रायोवादः ॥अव्ययीभावतत्पुरुषद्वन्द्वद्विगुबहुव्रीहिकर्मधारयाधिकारबहिर्भूतस्यापि नाम्नश्च कृतेति विधानात् । तद्व्याख्याने तत्पुरुष इत्युक्तिस्तु प्राचामनुरोधनेति ध्येयम् ॥ पूर्वपदार्थप्रधानोऽव्य. यीभावः ॥ उत्तरपदार्थ वानस्तत्पुरुषः ॥ उभयपदार्थप्रवाना द्वन्द्वः ॥ संख्यापूर्वान्यपदार्थपधानो द्विगुः ॥ अन्यपदार्थप्रधानो बहुव्रीहिः ॥ विशेषणपूर्वः कर्मधारयः उत्तरपदार्थप्रधानः ॥ विशेष्यपूर्वस्तु पूर्वपदार्थप्रधानः ॥ इत्यपि न तु सार्वत्रिकः । सूपप्रति उन्मत्तगङ्गमित्याद्यव्ययीभाव अतिमालादौ तत्पुरुष दन्तोष्ठमित्यादौ द्वन्दे दिवा इत्यादी बहुव्रीहौ चाभावात् ॥ अनेकपदत्वं द्वन्दबहुव्रीह्योरेव । किंच "सिपां सिपा तिपा नाम्ना धातुनाऽथ तिपां तिपा । सिवन्तेनेति विज्ञेयः समासः षड्विधो बुधः ॥ १॥" प्रायोऽभिप्रायः। सिवन्तानां सिवन्तेन यथा । राजपुरुषः ॥ सिबसानां तिपा समासो वेदे एव भवति नान्यत्र । यथा पर्यभूषत् ॥ सिवन्तानां नाना प्रातिपदिकेन यथा कुम्भकारः। अत्र सिबुत्पत्तेः प्रागेवोपपदसमासः॥ सिवन्तानां धातुना यथा । विपि वचिप्रच्छयायतस्तुकटग्रुजुश्रीणामित्यादिनिपातनाद्धातुना समासः । कटप्रूः । अजस्रम् ॥ तिपां तिपा समासो यथा । क्रियासातत्ये आख्यातेन समस्यते । अश्नीत पिवतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिवता । पचतभृज्जता । खादतमोदता ॥ तिपां सिपा यथा । एहीडादयोऽन्याथै समस्यन्ते । एहि ईड इति यस्मिन् कर्मणि तत् एहीडम् । कृन्त विचक्षण इति यस्यां क्रियायां सा कृन्तविचक्षणा ॥ इवेन नित्यसमासो विभक्त्यलोपश्च । जीमूतस्येव ॥ इति सर्वसमासशेषः॥ जात्याख्यायामेकस्मिन्बहुवचनं वा । ब्राह्मणाः पूज्याः ब्राह्मणः पूज्यः। एकत्वे द्वित्वे चास्मदो बहुवचनं वा । वयं ब्रूमः। अहं ब्रवीमि । आवा ब्रूवो वा॥ उपमानानि सामान्यवचनैः सहः समस्यन्ते । घनश्यामः । इह पूर्व पदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । उपमानस्य