________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता।
(१६९) युष्मभ्यं नोऽस्मभ्यं शिवं कल्याणं दद्यात् । षष्ठीबहुवचने यथा । स हरिवों युष्माकं नोऽस्माकमत्र लोके सेवितुमर्हः सेव्यः। ऋहसाध्याणिति कर्मणि घ्यण् । कृत्यानां कतरिवेति षष्ठी॥ एकवाक्ये युष्मदस्मदादेशावक्तव्याः। एकवाक्ये एकाख्यातेऽनयोः स्थाने उक्ता आदेशा भवंति । एकमाख्यातं यत्र तदिति बहुव्रीहिः। एकाख्यातं वाक्यमुच्यते ॥ ननु पश्य मृगो धावति इत्यादावेकवाक्यत्वव्यवहारो न स्यात् । सत्यम् । एकाख्यातमित्यत्राख्यातं विशेषसमर्पकं विवक्षितम् । ततश्च पश्य मृगो धावतीत्यत्राख्यातद्वये सत्यापे पश्यत्यस्यैव विशेषसमर्पकत्वान्नोक्तदोषः। तथा च वार्तिककार: आख्यातं सविशेषणं वाक्यमित्याह । त्वमोदनं पच तव भविष्यति । अत्र ते इत्या. दशो न वाक्यद्वयत्वात् । एकवाक्ये यथा । अहं ते तु तुभ्यमोदनं दास्यामि ॥
(तत्त्वदी०)-त्वामाऽमा इति ॥ त्वा मा अमा इति च्छेदः। तेमयोरपवादोऽयम् । आमस्तु न ग्रहणम् एकवचनान्तस्थानिनिर्देशात् ॥श्रीश इत्यादि॥अवनकर्मत्वात्कर्मणि द्वितीया त्या मेति ॥ ते मे दानपात्रत्वाच्चतुर्येकवचनं तुभ्यं मह्यमित्यस्य स्थाने ॥ स्वाम्यादियोगे षष्ठीति षष्ठयेकवचनं ते म तव ममेत्यर्थः॥ द्विवचनं दर्शयति । पातु वामपीति युवामावामित्यर्थः । कर्मत्वाद् द्वितीया ॥ सुखमिति ॥ वान्नौ युवाभ्यामावाभ्यामित्यर्थः । अत्रापि दानपात्रत्वाचतुर्थी । पतिरिति । वान्नौ युवयोरावयोरित्यर्थः । अत्रापि स्वाम्यादियोगे षष्ठीति षष्ठी ॥ बहुवचनं दर्शयति । सोऽव्याद्वो न इति ॥ वः युष्मान् नः अस्मान् स हरिः अव्यात् रक्ष्यादित्यर्थः॥ शिवं वः नः युष्मभ्यमस्मभ्यमित्यर्थः। सेव्योऽत्र वःस नः। युष्माकमस्माकमित्यर्थः। कृत्ययोगे षष्ठी ॥
एतेऽनन्वादेशे वा ) धाता ते तव भक्तोऽस्ति । अन्वादेशे नित्यम् । तस्मै ते नमः॥
(सुबोधिनी)-एतेऽनन्वादेशे वा वक्तव्याः॥ एते तेमयादय आदेशाः। युष्मदस्मदोः स्थानेऽनन्वादेशेऽर्थे एते आदेशा विकल्पेन भवन्ति ॥ अन्वादेशे नित्यम् । युष्मदस्मदोः स्थानेऽन्वादेशेऽर्थे एते आदेशा नित्यं स्युः ॥ अनन्वादेशेऽर्थे धाता ब्रह्मा ते भक्तस्तव भक्तोऽस्तीति वा ॥ अन्वादेशे तस्मै पूर्वोक्ताय ते तुभ्यं विष्णवे नमोऽस्तु ॥
(तत्त्वदी०)-अनन्वादेश इति ॥ युष्मदस्मदोरिति सूत्रे य्वौ वेत्यतो वेत्यनुवर्त्य तस्य व्यवस्थितत्वमाश्रित्य विकल्पः ॥ __(नादौ) वाक्यादौ पादादौ च वर्तमानयोर्युष्मदस्मदोनॆते ॥ त्वां पातु । वेदैरशेषैः संवेद्योऽस्मान् कृष्णः सर्वदाऽवतु ॥