________________
[ समासप्र० ] टीकाद्वयोपेता।
(२४७) मुनयो वंश्या इति त्रिमुनि । व्याकरणस्येति सम्बन्धे षष्ठी । अन्यपदार्थप्राधान्यविवक्षायां तु त्रयो मुनयो वंश्या यस्मिस्त्रिमुनि । बहुव्रीहिरेवायम् ॥ जन्मना वंश्यो यथा । एकविंशतिर्भारद्वाजा वंश्या इति एकविंशतिभारद्वाजम् ॥ नदीवाचिना सह संख्या समस्यते । समाहारार्थे । सप्त गङ्गाः समाहृताः इति सप्तगङ्गम् ।। यमुने समाहृते इति । पुंवद्वेति पुंवद्भावः । द्वियमुनम् । द्विगोरपवादोऽयमव्ययीभावः ॥ (तत्त्वदी० )-इत्यादयो निपात्या इति ॥ सहादित्वादिति भावः ॥
( टाडकाः) समासे सति ट अ ड क इत्येते प्रत्यया भवन्ति ॥ शरदः समीपमुपशरदम् ॥ प्रतिविपाशम् ॥
(सुबोधिनी )-अथ समासान्तप्रत्ययानाह । समासस्य समासोत्तरपदस्य वा चरमावयवाः समासान्ता इत्यर्थः ॥ टाडकाः॥ टश्च अश्च डश्च कश्च ते टाडकाः समासे इत्यनुवर्तते । टकार ईवर्थः । अकारोऽदन्तत्वफलकः । डष्टिलोपार्थः । कः श्रवणार्थः न त्वित्संज्ञकः । प्रयोजनाभावात् ॥ अव्ययीभावे शरदादिभ्यष्टप्रत्यय एव । शरद् विपाश् अनस मनसू उपानह दिव हिमवत् अनडुङ् दिश दृश विशू चेतस् चतुर् त्य तद् यद् किम् एते शरदादयः । शरदः समीपमिति उपशरदम् । टः । विपाशं प्रतीति प्रतिविपाशम् । विनादित्वात् प्रतियोगे द्वितीया । “विपाशा तु विपाट् स्त्रियाम्" इत्यमरः॥
(तत्त्वदी०)-टाडका इति ॥ टश्च अश्व डश्व कश्च ते टाडकाः । समासश्चान्वय इत्यतो. ऽनुवृत्तं समास इति सप्तम्या विपरिणम्यत इत्याह-समास सतीति ॥ समासे चिकीर्षिते नाम्नष्टादयो भवन्तीति बोध्यम् । ततो विभक्तिं विधाय टाद्यन्तेन समासः। तेन समासस्यान्तावयवाष्टादयः । ततश्चोपशरदमित्यादावव्ययीभावस्यादन्तत्वाद्विभक्तेरम् सिध्यति । अन्यथा अव्ययीभावात् परत्वेनाकारस्यादन्तत्वाभावान्नाम् सिद्धयेदिति भावः । टस्त्वीबर्थः । राजगवीत्यादौ इत्यव्ययीभावः ॥
(जरायाजरस् ) उपजरसम् । अक्षि प्रति प्रत्यक्षम् ॥ अक्ष्णः परं परोक्षम् । परशब्दस्य परस् । परोक्ष इति ज्ञापकात् ॥ अन्वक्षम् । उपराजम् ॥ क्लीवे वाऽन्लोपश्च ॥ उपचर्मम्-उपचर्म ॥ झसान्ताद्वा । उपसमिधम्-उपसमित् ॥ नद्यादिश्यो वा ॥ उपनदम्-उपनदि । इत्यव्ययीभावः ॥
(सुबोधिनी)-जराया जरम् ।। अव्ययीभावे जराशब्दस्य जरसादेशष्टप्रत्ययश्च ।। जरायाः समीपमिति उपजरसम् । टः । प्रतिपरमनुभ्योऽक्षिशब्दादव्ययीभावे