________________
( १९४ )
सिद्धान्तचन्द्रिका |
[ स्त्रीप्रत्ययाः ]
(सुबोधिनी) - मातुलोपाध्यायाभ्यां वा ॥ अभ्यामानीपू वा स्यात् । पक्षे पुंयोगे चेती ॥ मातुर्भ्राता मातुलस्तस्य स्त्री मातुलानी - मातुली ॥ उपाध्यायस्य स्त्री उपध्यायानी - उपाध्यायी ॥
( अक्षत्रियोपाध्यायेभ्यो वा स्वार्थे ) अर्याणी- अर्या ॥ क्षत्रियाणी क्षत्रिया ॥ उपाध्यायानी - उपाध्याया ॥
(सुबोधिनी) - अर्थक्षत्रियोपाध्यायेभ्यो वा स्वार्थे | एभ्यः स्वार्थे आनीपू वा स्यात् । पक्षे आप || अर्याणी - अर्था | स्वामिनी वैश्या वेत्यर्थः । अर्यः स्वामिवैइययोरित्यर्थद्वयेऽपि निपातनात् ॥ क्षत्रियाणी-क्षत्रिया । क्षत्रियजातीया स्त्रीत्यर्थः ॥ पुंयोगे तु अर्थी क्षत्रियी ॥ या तु स्वयमेवाध्यापिका तत्र वा ईपू वाच्यः । पक्षे आपू उपाध्यायी उपाध्याया । उपेत्यास्या । अधीयते इत्यपादाने स्त्रियां घञ । ध्यायान्युपाध्यायी " इत्यमरः ॥
"L
उपा
( तत्त्वदी०) - अर्याणीति ॥ स्वामिनी वैश्या वा स्वार्थे इति ॥ पुंयोगेऽतीत्यर्थः ॥ ( पुंयोगे च ) अदन्तात्स्त्रियामीप् । शूद्री | गणकी ||
( सुबोधिनी) - पुंयोगे च ॥ इह पुमिति षष्ठयन्तं साङ्केतिकं पृथक् पदम् । तच्चावर्त्यते । द्विरुच्चारणमावृत्तिः । पुंसः पुंस इति । योगे इति भावे निमित्ते वा सप्तमी । अधिकारान्नामेति लभ्पते । यत् पुंसो नाम पुंवाचकशब्दोऽदन्तः पुंसो योगे स्त्रियां वर्तते ततईप् स्यात् ॥ योगः सम्बन्धः स चेह दाम्पत्यरूप एवेति नाग्रहः । किंतु जन्यजनकभावोऽपि गृह्यते । तेन केकयस्य क्षत्रियस्य पुत्री केकयीत्यादि सिद्धम् । तथा च भट्टिः । " प्राक्केकयी तो भरतस्ततोऽभूत्" इति ॥ कत्यादित्वात्केकयदुहिता कैकेयीत्यपि । तथा प्रागुक्तः " कैकेयि कामाः फलितास्तवेति" इति कालिदासेन ॥ पुंयोगे किम् । देवता । अयं हि संज्ञाशब्दः स्वभावात स्त्रियां वर्तते न तु पुंवाचकशब्दयोगे || अतः किम् । भानोः स्त्री भानुः ॥
( तत्वदी ० ) - गणीति ॥ गणकस्य स्त्रीत्यर्थः । स्त्रियां वृत्तिस्तु साहचर्यात् । तस्येयमिति सम्बन्धात् । तद्धितस्त्वभेदविवक्षातो न । यदि भेदविवक्षा तदा गणकेत्यपि भवत्येव । पुंयोगभ्ध न दम्पत्यरूप एव किंतु जन्यजनकभावलक्षणोऽपि तेन केकयीत्यपि ॥
( पालकान्तान्न ) गोपालिका । अश्वपालिका ॥
( सुबोधिनी ) - पालकान्तान्न ॥ पुंयोगे ईबू न स्यात् । गोपालकस्य स्त्री गोपालिका |
( तत्त्वदी ० ) - पालकान्तान्नेति ॥ चकारस्य व्यवस्थितत्वार्थत्वादित्यर्थः ॥