________________
[स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
( १९५) (सू-देवतायां चाप) सूर्यस्य स्त्री देवता सूर्या । अन्या सूरी ॥ ( सुबोधिनी)-सूर्यादेवतायां चाप् ॥ सूर्यशब्दात् पुंयोगे आप् स्यात् देवतार्थ ईपोऽपवादः ॥ देवतायां किम् । सूर्यस्य स्त्री सूरी मानुषी कुन्तीत्यर्थः । सूर्यागस्त्ययोरिति यलोपः॥ ( तत्त्वदी० )-सूरीति ॥ सूर्यागस्त्ययोरीये ईपि चेति यलोपः ॥
(जातेरयोपधात् ) जातिवाचिनोऽयकारोपधादकारान्तात्त्रियामीप् प्रत्ययो भवति ॥ महिषी । हंसी ॥ योपधात्तु । क्षत्रिया । वैश्या ॥
(सुबोधिनी)-जातेरयोपधात् ॥ जातिवाचकाद्य उपधा यस्य स योपधः न योपधः अयोपधस्तस्मादयोपधात् अदन्तास्त्रियामीप् स्यात् ॥ जातिलक्षणमाह । "आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक। सकृदाख्यातनि ह्या गोत्रं च चरणैः सह ॥१॥" आकृतिम्रहणं यस्याःसा आकृतिग्रहणा जातिरुच्यते । आकृतिः। संस्थानम् । गृह्यतेऽनेनेति ग्रहणम् । करणे युट् । अवयवसंनिवेशविशेषव्यङ्गयेत्यर्थः । यथा तटी। तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातित्वं भवति । अनेन लक्षणेन गोत्वादिजातिर्लक्षिता । ब्राह्मणत्वादिजातिस्तु न लक्षिता । ब्राह्मणक्षत्रियादीनां ह्यवयवसंस्थानस्य सदृशत्वाद्ब्राह्मणादिष्वव्याप्तिवारणाय लक्षणान्तरमाह। चकारो भिन्नक्रमार्थः । या तकृदाख्यातानि ह्या सा जातिरुच्यते । सकृदेकवारमाख्यातोपदिष्टा सती निर्लाह्या निश्चेतुं शक्या सा जातिरित्यर्थः। कीदृशी सा लिङ्गानां न सर्वभाक् । लिङ्गानामिति कर्मणि षष्ठी । सर्वाणि भजतीति सर्वभाक् । या सर्वाणि लिङ्गानि न भजतीत्यर्थः । सर्वशब्दस्य लिङ्गापेक्षत्वेऽपि गमकत्वात् भजो विणप्रत्ययः समासश्च । असर्वलिङ्गत्वे सत्येकस्यां व्यक्तो कथनाध्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । यथा वृषली । एकस्यां हि व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनापि वृषलत्वस्य मुग्रहः ॥ सकृदित्यादि किम् । देवदत्ता । यस्यां हि व्यक्तौ देवदत्तत्वं कथ्यते तत्समकालमन्या देवदत्तव्यक्तिरप्रसिद्धेति न देवदत्तत्वं जातिः। उक्तलक्षणद्वयरहितत्वात् ॥ तृतीयलक्षणमाह । चरणैः सह गोत्रं जातिरुच्यते। चरणशब्देन शाखाध्येतार उच्यन्ते । गोत्रशब्देनापत्यमुच्यते अपत्यप्रत्ययान्तःशाखाध्येतृवाचकशब्दो जातिवाचक इत्यर्थः ॥ गोत्रस्यानाकृतिग्रहणत्वात् सर्वलिङ्गत्वाच्च पृथगुपादानम् । चरणशब्दास्त्वध्ययनक्रियासंबन्धेन प्रवृत्तत्वात् क्रियाशब्दा एव न जातिशब्दा इति चरणग्रहणं कृतम् । आकृतिग्रहणा यथा । महिषी । हंसी ॥ असर्वलिङ्गा यथा । ब्राह्मणी । वृषली ॥ गोत्रलक्षणा यथा । पैतृष्वस्त्रीयी। औपगवी अण्णतनिमित्तकमीपं परत्वादयं बाधते इति भावः ॥ चरणलक्षणा यथा। फठेन प्रोक्तमधीथाना कठी।कारकादित्यशप्रत्ययस्मस्व लुक च ॥ अल इति किम् । तित्तिकिगी।