________________
[स्त्रीप्रत्ययाः] टीकाद्वयोपेता।
( १९३) रोच्चारणस्य तु न सामर्थ्य धर्मादनि सुधर्मेत्यादावपि तत्सामर्थ्याल्लोपाभावप्रसंगात्। इन्द्रं करोति इन्द्रयति ततः क्विप इन्द्र तस्य इन्द्रः स्त्री इन्द्रमिच्छतः इन्द्रियः स्त्रीत्यादौ अत इत्यनुवृत्तेरनदन्तत्वादेव न ब्रह्माणीति ब्रह्माणमानयति जीवयतीति विग्रहे ' अन प्राणने' इत्यतो न्यतात्कर्मण्यणि अणन्तत्वात् व्रण ईपि णत्वे च सिद्ध यति । सूत्रं तु इन्द्रस्य स्त्रीति वाक्ये इन्द्रीत्यनिष्टरूपवारणायेति बोध्यम् । इन्द्रादेरानन्वेति तु न सूत्रितम् आगमलिङ्गाभावेन सर्वादेश - प्रसङ्गात् । अनुगपि न कृतः । अल्लोपः स्वर इति लोपप्रसङ्गात् । अकारोच्चारणस्य तु प्रकृत्यकारकरणार्थत्वेन चरितार्थत्वान्न सामर्थ्यम् । शर्वशब्दे च । अत्राहुः । आनुक् सुवचं मात्रा. लाघवादिति । अत्रेदं वक्तव्य मात्रालाघवेऽपि प्रक्रियागौरवस्य सत्त्वेन तुल्यत्वात् । तथा हि । आनुकि सवणे दीर्घः सह, व्रण ईबिति सूत्रद्वयम् आनीपि तु दीर्घसूत्रमेकमेवेति लाघवम् ॥
(आचार्यादणत्वम् ) आचार्यानी ॥ ( सुबोधिनी)-आचार्यादणत्वम् ॥ आचार्य शब्दात्परस्यानीपो नस्य णत्वं न स्यात् ॥ आचार्यस्य स्त्री आचार्यानी-पुंयोगाभावे आचार्या । स्वयं व्याख्यात्री ॥
(हिमारण्ययोमहत्त्वे ) महद्धिमं हिमानी ॥ महदरण्यमरण्यानी ॥ (सुबोधिनी)-हिमारण्ययोमहत्त्वे ॥ महत्त्वयोगे आभ्यामानी स्त्रीत्वं च विधीयते ॥ महद्धिमं हिमानी ॥ " हिमानी हिमसंहतिः” इत्यमरः॥ महदरण्यमरण्यानी । “ महारण्यमरण्यानी" इत्यमरः ॥ _(तत्त्वदी०)-महत्त्वे इति ॥ लक्षणया महत्त्वम्। न दीर्घत्वमिति भावः। तदन्तश्च स्त्रियामिति वक्तव्यम् अन्यथा धौ ह्रस्वः स्त्रियां य्वोरित्यादेः प्रवृत्तिर्न स्यात् स्त्रियामभावात् ॥
(यवादोषे ) दुष्टो यवो यवानी ॥ (सुबोधिनी)-यवादोषे ॥यवादानीपस्त्रीत्वं च दोषेऽर्थे । दुष्टो यवो यवानी ॥ यवत्वजात्यभावे तदाकारानुकृतिर्दोषः। यवाकारानुकृतिमज्जात्यन्तरमेवानेनाभिधीयते॥
(तत्त्वदी०)-यवादोष इति ॥ यवानीति जात्यन्तरमेवानेन विधीयते । अयमेव चास्य दोषः । यदि तु यवत्वजातेरभावेऽपि तदाकारानुकृतिः ।।
( यवनाल्लिप्याम् ) यवनानां लिपिर्यवनानी ॥ (सुबोधिनी)-यवनाल्लिप्याम् ॥ यवनशब्दादानीपू लिप्यर्थे । स च स्त्रीलिङ्ग एव । देवतेदमर्थे इत्यणो बाधक आनी विधीयते । यवनानां लिपिर्यवनानी । लिखिताक्षरविन्यासो लिपिः॥
(मातुलोपाध्यायाभ्यां वा ) मातुलानी-मातुली ॥ उपाध्यायानीउपाध्यायी ॥