________________
[तद्धितप्र० ] टीकाद्वयोपेता।
(३३१) इदमस्थाने इशादेशश्च ॥ शित्त्वात्सर्वादेशः । वतुप्रत्ययस्य यकारश्च । इदं परिमाणमस्य स इयान् ॥ ( तत्त्वदी० )-इदम इशिति ॥ शकारः सर्वादेशार्थः॥ (श्रद्धादेलुः ) श्रद्धालुः । कपालुः। दयालुः॥ (सुबोधिनी)-श्रद्धादेलः ॥ लुप्रत्ययः स्यादस्त्यर्थे ॥ श्रद्धाऽस्यास्मिन्वास्ति श्रद्धालुः ॥ कृपाऽस्यास्मिन्वाऽस्ति कृपालुः ॥ दयाऽस्यास्मिन्वाऽस्ति दयालुः । स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाशीभ्य इत्यालुप्रत्ययेनापीष्टसिद्धरिदं सूत्र चिन्त्यम् ॥
(औनत्ये दन्तादुरः) दन्तुरः ॥ (सुबोधिनी )-औनत्ये दन्तादुरः ॥ उन्नते वर्तमानादन्तशब्दादुरप्रत्ययः स्यादस्त्यर्थे । उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥ औन्नत्ये किम् । दन्तवान् ॥
(अस्मायामेधास्रग्भ्यो विनिः ) तपस्वी । ओजस्वी । वर्चस्वी । तेजस्वी । वचस्वी । मायावी । मेधावी । स्रग्वी ॥
(सुबोधिनी)-अस्मायामधास्त्रग्भ्यो विनिः ॥ एभ्यो विनिः स्यादस्त्यर्थे । पक्षे वतुरपि ॥ तपोऽस्यास्मिन्वास्ति तपस्वी ॥ ओजोऽस्यास्मिन्वाऽस्ति ओजस्वी ॥ वर्णोऽस्यास्मिन्यास्ति वर्चस्वी ॥ तेजोऽस्यास्मिन्वाऽस्ति तेजस्वी ॥ वचोऽस्यास्मिन्वास्ति वचस्वी। मनोऽस्यास्मिन्वास्ति मनस्वी ॥ मायाऽस्यास्मिन् वास्ति मायावी । मायी । मायिकः । इनिको । मेधाऽस्यास्मिन्वास्ति मेधावी ॥ स्रगस्यास्मिन्वाऽस्तीति चोः कुरित्यनेन सिद्धे परत्वात्प्राप्तं छशषेति षत्वं निराकृत्य दिशामिति कुत्वम् । स्रग्वी ॥
(तत्त्वदी०)-अस्मायेति ॥ अस्प्रत्ययग्रहणेन तदन्तस्य ग्रहणमिति अस्प्रत्ययान्तात् मायादेश्च विनिरित्यर्थः ॥
( आमयस्य दीर्घश्च ) आमयावी ॥ (सुबोधिनी )-आमयस्य दीर्घश्च ॥ आस्मादपि विनिः स्यादस्त्यर्थे विनिप्रत्ययेऽस्य दीर्घश्च ॥ आमयोऽस्यास्मिन्वाऽस्तिआमयावी ॥
(वाचो ग्मिनिः ) वाग्ग्मी ॥ (सुबोधिनी)-वाचो ग्मिनिः॥ वाचशब्दात् ग्मिन् प्रत्ययः स्यादस्त्यर्थे । वागस्यास्मिन्वाऽस्ति । चस्य कुत्वे झबे जवा इति गत्वे वाग्ग्मी । गकारद्वयमस्ति ।