________________
(३३०) सिद्धान्तचन्द्रिका। [ तद्धितप्र.] परितः सीदतीति परिषत् । क्किए । पदिति पाठान्तरम् । परिषदस्यास्मिन् वाऽस्ति परिषदलः । पर्षदलश्च । 'पर्षदलान्महाब्रह्मैराटनैकटिकाश्रमान्' इति भट्टिः ।। (तत्त्वदी० )-परिषद्वल इति ॥ परितः सीदतीति परिषत् ॥ (अन्येभ्योऽपि ) मातृवलः । पुत्रवलः । दन्तावलः। बन्धुवलः ॥ (सुबोधिनी)-अन्येभ्योऽपि ॥ वलप्रत्ययः स्यादस्त्यर्थे ॥ भ्रातास्यास्मिन्वास्ति भ्रातृवलः । पुत्रोऽस्यास्मिन्वास्ति पुत्रवलः । संज्ञाया अभावान्नेह दीर्घः ॥ दन्ता अस्यास्मिन्वा सन्ति दन्तावलो हस्ती । कृष्यादीनामिति दीर्घः ॥
(तुन्दिबलिवटेर्भः) तुन्दिभः । बलिभः । वटिभः । (सुबोधिनी )-तुन्धिबलिवटेभः ॥ एभ्यो भप्रत्ययः स्यादस्त्यर्थे. ॥ वृद्धा नाभिस्तुन्दिः । तुन्दिरस्यास्मिन्वाऽस्ति तुन्दिभः ॥ बलिरस्यास्मिन्वास्ति बलिभः ॥ वटिरस्यास्मिन्वाऽस्ति वटिभः । वल्मीकगृहमित्यर्थः । पामादित्वाइलिनोऽपि ॥
(एतत्किमिदंयत्तद्यः परिमाणे वतुः ) (सुबोधिनी)-एतत्किमिदंयत्तद्भयः परिमाणे वतुः ॥ एभ्यो वतुप्रत्ययः स्यात् परिमाणेऽर्थे ॥ परिमाणमिह परिच्छेदकमात्रम् ॥
(तत्त्वदी० )-एतत्किमिदंयत्तद्भयः परिमाणे वतुरिति ॥ मान्तोपधादित्यनेनैव सिद्धे परिमाणार्थे वचनम् ॥ ( यत्तदेतदामा वतौ) यावान् । तावान् । एतावान् ।
(सुबोधिनी)-यत्तदेतदामा वती॥वतुप्रत्यये परे एषामाकारान्तादेशः स्यात्॥ यत्परिमाणमस्य यावान् ॥ तत्परिमाणमस्य तावान् ॥ एतत्परिमाणमस्य एतावान्॥
(तत्त्वदी०)-यत्तदेतदामा वताविति ॥ यत्तदेतच्छब्दानां वतुप्रत्यये परे आकारोन्तादेश इत्यर्थः ॥ यावानिति ॥ यत् परिमाणमस्येति विग्रहः ॥
(किमः किर्वतोवस्य यः) कियान् । (सुबोधिनी)-किमः किर्वतोर्वस्य यः ॥ किम्शब्दस्य किरादेशः स्यात वतुप्रत्ययस्य यकारश्च ॥ किं परिमाणमस्य कियान् ॥
(इदम इश्वतोर्वस्य यः ) इयान् ॥ (सुबोधिनी)-इदम इश्वतोर्वस्य यः ॥ इदम्शब्दावतुः स्यात्परिमाणेऽर्थ