________________
[तद्धितप्र०] टीकाद्वयोपेता।
(३२९) (सुबोधिनी )-कच्छा हस्वत्वं च ॥ कच्छूशब्दाद्रः स्यादत्यर्थे । कच्छू इत्यस्य हस्वश्च ॥ कच्छूरस्यास्मिन्वाऽस्ति कच्छुरः । कच्छूः रोगविशेषः॥ (तत्त्वदी० )-कच्छर इति ॥ कच्छूः रोगविशेषस्तद्वान् ॥ (घुद्रुभ्यां मः) द्युमः । द्रुमः ॥ (सुबोधिनी)-युद्रुभ्यां मः ॥ आभ्यां मप्रत्ययः स्यादस्त्यर्थे ॥ द्यौरस्यास्मिन्वाऽस्ति द्युमः । दिव 'ऊ रसे' इत्युत्वम् ॥ द्रुः शाखा वृक्षश्च। दूरस्यास्मिन्वाऽस्ति द्रुमः। 'पलाशी द्रुद्रुमागमाः' इत्यमरः ॥
( तत्त्वदी० )-शुद्भ्यां म इति ॥ द्यौरस्यास्तीति । दिव 'ऊ रसे' इत्युत्वम् । अव्युत्पन्नोऽपि धुशब्दो दिनवाच्यस्ति ॥ दुर्वृक्षः सोऽस्यास्तीति जनकतयेति द्रुमोऽपि वृक्ष एव ॥ . (केशादिभ्यो वः) केशवः । मणिवः । हिरण्यवः ॥
( सुबोधिनी ) केशादिभ्यो वः ॥ एभ्यो वः स्यादस्त्यर्थे ॥ केशा अस्यास्मिन्वा सन्ति केशवः। केशी । इन् । केशिकः । इकः । केशवान् । वतुः॥ मणिरस्याऽस्मिन्वाऽस्ति मणिवः । नागविशेषः ॥ हिरण्यमस्यास्मिन् वाऽस्ति हिरण्यवो निधिविशेषः॥ ( तत्त्वदी०)-केशव इति ॥ प्रशस्ताः केशाः सन्त्यस्येति विग्रहः ॥ (अर्णसोलोपश्च ) अर्णवः ॥ ( सुबोधिनी )-अर्णसो लोपश्च ॥ अर्णस्शब्दादः स्यादस्त्यर्थे । सस्य लोपश्च॥ अर्णो जलं तद्वानर्णवः । अणस्वान् । वतुः॥ ( तत्त्वदी०)-अर्णव इति ॥ अर्णीसि जलानि सन्त्यस्येति ॥ (रजःकृष्यासुतिपरिषद्भयो वलः) रजस्वला ॥ (सुबोधिनी)-रजःकृप्यासुतिपरिषड्यो वलः ॥ एभ्यो वलप्रत्ययः स्यादस्त्यर्थे ॥ रजोऽस्या अस्यां वाऽस्ति रजस्वला । रजःस्वीकुसुमेऽपि च' इत्यमरः ॥ .
(कृष्यादीनां वले दीर्घः) कृषीवलः । आसुतीवलः। परिषदलः॥ ( सुबोधिनी)-कृष्यादीनां वले दीर्घः ॥ वलप्रत्यये संज्ञायामेषां दीर्घः स्यात॥ कृषिरस्याऽस्मिन्वास्ति कृषीवलः ॥ आसुतिरभिषवः। 'मद्यसंधानमासुतिः' इति हैमः ॥ 'पुञ् अभिषवे' क्तिः॥ आसुतिरस्यास्मिन्वाऽस्ति आसुतीवलः शौण्डिकः॥