________________
(३३२) सिद्धान्तचन्द्रिका। [तद्धितप्र० ]
(तत्त्वदी० )-वाचो ग्मिनिरिति ॥ गकारो मादित्वव्यावृत्त्यर्थः । तेन गत्वमेव । यद्वा ग् मिनिः इति च्छेदः ग् आदेशो मिन् प्रत्ययः॥
(आलाटौ कुत्सितभाषिणि) वाचालः। वाचायः॥ (सुबोधिनी)-आलाटौ कुत्सितभाषिणि ॥ वाचशब्दादेतौ स्तः कुत्सितबहुभाषकेऽर्थे कुत्सितं बहु भाषते वाचालः । वाचाटः ॥ यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
(तत्वदी० )-कुत्सितेति ॥ कुत्सितमनन्वित भाषितुं शीलमस्य स तथा तस्मिन्नित्यर्थः । प्रत्ययार्थे वाच्य इत्यर्थः ॥
(ईषदसमाप्तौ कल्पदेश्यदेशीयाः ) ईषदपरिसमाप्तः सर्वज्ञः सर्वज्ञकल्पः । पटुदेश्यः । पटुदेशीयः । विदद्देशीयः ॥ - (सुबोधिनी ) ईषदसमाप्तौ कल्पदेश्यदेशीयाः ॥ प्रथमान्तान्नाम्न आख्यातान्ताच्चैते स्युरीषदूनेऽर्थे ॥ ईषदसमाप्तौ ये प्रत्ययास्तेष्वभिधेयवदेव लिङ्गवचने स्तः। तेन गुडकल्पा द्राक्षा ॥ शर्कराकल्पो गुड इति ॥ ईषदूनः सर्वज्ञः सर्वज्ञकल्पः ॥ ईषदूनः पटुः पटुदेश्यः ॥ ईषदूनो विद्वान् ‘वसां रसे' इति दत्वं विद्वद्देशीयः ईषदूनं पचति पचतिकल्पम् ॥ क्रियाप्रधानमाख्यातभिति क्रियायामौत्सर्गिकमेकवचनं क्लीवत्वं च ॥ ( तत्त्वदी० )-ईषदिति ॥ ईषदसमाप्तौ किंचिन्यूनत्वे ॥ (बहुर्वा उक्तार्थे स च प्रागेव ) ईषदूनः पटुः बहुपटुः ॥ (सुबोधिनी)-बहर्वा उक्तार्थे स च प्रागेव ॥ ईषदसमाप्तिविशिष्टेऽर्थे प्रथमान्तानीनो बहुप्रत्ययः स्यात् स च प्रकृतेः प्रागेव न तु परतः। लिङ्गसंख्ये आप प्रकृतेरेव न तु तद्विपर्ययः । तेन बहुगुडो द्राक्षा ।' लघुबहुतृणं नरः' इत्यादौ न विशेष्यनिघ्नता॥
(तत्त्वदी० )-बहु उक्तार्थे स च प्रागवेति ॥ उक्तार्थे किंचिन्न्यूनत्वेऽर्थे बहुप्रत्ययो विकल्पेन भवति । स च बहुप्रत्ययः प्रकृतेः प्रागेव न तु परतः । लिङ्गसंख्ये अपि प्रकृतेरेव न तु तद्विपर्ययः । तेन बहुगुडो द्राक्षा — लघुर्बहुतृणं नरः' इत्यादौ न विशेष्यनिघ्नता ॥
(प्रकारे जातीयः) पटु प्रकारः पटुजातीयः ॥ (सुबोधिनी )-प्रकारे जातीयः ॥ प्रकारवति जातीयप्रत्ययः स्यात् ॥ सामान्यस्य भेदकः प्रकारः॥