________________
[ हसान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(१२९) (सुबोधिनी)-अन टौसोः ॥ इदमोऽयमित्यत इदम इत्यनुवर्तते । टेनेतीनादेशः । अनेन ॥
(तत्त्वदी० )-अन टोसोरिति ॥ अनाऽपीति तु लाघवेऽपि प्रतिपत्तिगौरवादुपेक्षितम् । तथा हि । टा इत्याकारमारभ्य सुपः पकारेण प्रत्याहाराश्रयणे इतरविभक्तावन्यविधानात्परिशेषाहौसोरेव लाभः । आपोऽपि स्यादाविति विशेषणेन वारणम् इत्यादिप्रतिपत्तिगौरवम् । तस्माद्यथान्यासमेव ॥
(स्भ्यः ) सकारे भकारे च परे इदमोऽकारो भवति कृत्स्नस्य ।। अदि । आभ्याम् ॥
(सुबोधिनी)-स्भ्यः ॥ स च भू च अनयोः समाहारः स्भ् तस्मिन् स्भि । सकारभकारादौ स्यादौ इदमशब्दस्य अः स्यात् । स्भ्यशिति सुवचम् । यतः सर्वस्य स्यात् ॥ अद्भीत्यावे आभ्याम् ॥
( तत्त्वदी०)-स्भ्यः ॥ स् च भ् चानयोः समाहारः स्भ तस्मिन् स्भि अ इति च्छेदः।। यस्मिन्विधिस्तदादौ वर्णग्रहणे इति सादिभादिग्रहः॥ न च षष्ठीनिर्दिष्टस्येत्यन्तस्य भविष्यति । तस्यानित्यत्वात् स्भ्यशित्यस्यैव सुवचत्वात् ।।
(भिस् भिस् ) इदमदसोर्भिस् भिसेव भवति न भकारस्याकारः ॥ एभिः। अस्मै । अस्मात् । अस्य, अनयोः, एषाम् । अस्मिन्, एषु ॥
(सुबोधिनी)-भिम् भिस् ॥ इदमोऽदसश्च भिस् भिसेव भवति ॥ भिसो भिविधानं ब्भ्य इत्यत्वबाधनार्थम् । ए स्भीत्येत्वे एभिः । अदसस्तु अमीभिः ॥ .
(तत्त्वदी० )-भिस् भिसिति ॥ फलं किमित्याह--न भकारस्येति ।। ह्रस्वो वेत्यतो वेत्यनुवर्त्य तस्य व्यवस्थितत्वादिह न । इमकेन, इमकाभ्याम्, इमकैः ॥
(इदमेतदोरन्वादेशे द्वितीयाटौस्स्वेनद्वा) एनम्, एनौ, एनान् । एनेन । एनयोः । किंचित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतम् । एनं छन्दोऽध्यापय ॥ नोपधायाः नाम्नो नो लोपशधौ । राजा, राजानौ, राजानः । हे राजन् । अल्लोपः स्वरेऽम्वयुक्ताच्छसादौ श्चुत्वम् ॥
( मुबोधिनी )-इदमेतदोरन्वादेशे द्वितीयाटौस्स्वेनद्वा ॥ द्वितीयायां टौसोश्च परतोऽन्वादेशे इदमेतदोरेनदादेशो वा स्यात् ॥ अन्वादेशमाह । किंचित्कार्य विधातुमुपात्तस्य गृहीतस्य शब्दस्य कार्यान्तरं विधातुं बोधयितुं पुनरुपादानं ग्रहणम् । सोऽन्वादेश उच्यते । “ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं