________________
( १२८ )
सिद्धान्तचन्द्रिका |
[हसान्तपुल्लिंगा: ]
( सुबोधिनी ) - इदमोऽयम्पुंसि ॥ सो स इत्यतः सावित्यनुवर्तते ॥ सिलोपे अयम् । पुंसि किम् । इदम् ॥ नन्वत्र लुकि न तन्निमित्तमिति परिभाषया न भवि - ष्यति । सत्यम् । तस्या अनित्यत्वज्ञापनार्थ पुंसीति । तेन प्रियतिसृ इत्यादि सिद्धयति ॥ इन्देः कमिर्नलोपश्चेति कमिप्रत्यये इदमुशब्दः ॥
(तत्त्वदी ० ) - इदमोऽयम् पुंसीति ॥ इदमः किम् । यः ॥ पुंसीति । किम् । इदम् || न चात्र लुकि न तन्निमित्तमित्येव भविष्यतीति चेत्सत्यम् । तस्य अनित्यत्वज्ञापनार्थम् । तेन हैं प्रियतिसृ इत्यादि सिद्धम् ॥ अयमिति ॥ हसेप इति सेर्लोपः ॥
( दस्य मः ) त्यदादेर्दकारस्य मत्वं भवति स्यादौ । इमौ इमे ॥ त्यदादेः संबोधनाभावः । इमम्, इमौ, इमान् ॥
( सुबोधिनी ) - दस्य मः ॥ त्यदादेर्दस्य मः स्यात्स्यादौ विभक्तौ ॥ स्याद किम् । अस्यापत्यमैदमः । अमुमिच्छतीत्यदस्याते ॥ ननु द्वावित्यत्र कस्मान्मत्वं न। णु । स्यादाविति दस्य विशेषणम् । अर्थवशाद्विभक्तिविपरिणाम इत्युक्तत्वात् स्थादिपरस्य दस्येत्यर्थः ॥ येन नाव्यवधानं तेन व्यवहितेऽपि इत्युक्तत्वादकारव्यवधाने सति भवति न च द्विव्यवधाने । क्वचिद् द्वयोरित निर्देशाद्वा न । त्यदाद्यत्वे मत्वे औत्वे च इमौ । त्यदादेः संबोधनं नास्तीत्युत्सर्गः । प्रचुरप्रयोगादर्शनमेवात्र मूलम् । भाष्ये तु हे स इत्युक्तम् ॥
( तत्त्वदी ० ) - दस्य म इति ॥ ननु द्वावित्यत्र किमु न मत्वमिति चेन्न । दो म इति वक्तव्ये अकारोच्चारणमकारपरस्यैव दस्य मत्वार्थम् । अत्राहुः । अत एव त्यदिति त्यदादेः । न चात्र त्य - दाद्यत्वं बाधकम् । परत्वान्मत्वप्रसङ्गात् । अत्वावकाशो द्वौ । मत्ववान् इमौ । स्य इत्यत्रोभयप्रसङ्गे परत्वान्मत्वम् । न चात्वविधौ त्यदादिग्रहणं व्यर्थम् । इदमादेरिति वक्तुं युक्तम् । उत्तरत्र चरितार्थत्वादिति । अत्रेदं वक्तव्यम् । स्य इत्यादौ कृतेऽपि मत्वे पश्चात्त्यदाद्यत्वेन रूपसिद्धेरनिवार्यत्वात् । न च मत्वविधिसामर्थ्यादेवात्वं नेति वाच्यं मत्वविधेरिमावित्यादौ चरितार्थत्वेन ज्ञापनायोगात् । पर्जन्यवल्लक्षण प्रवृत्तेरिष्टत्वाच्च । स नपुंसकमित्यादिनिर्देशाच्चेति ॥ त्यदादेः संबोधनाभाव इति ॥ औत्सर्गिकश्चायम् । हे स इति भाष्यप्रयोगात् । अभावस्तु प्रचुरप्रयोगे संबोधनाभाव इत्येवंपरतया व्याख्येयः । यत्त्वाहुः । " इदमस्तु संनिकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्" इति वचनादेवंविधस्यार्थस्याभिमुखीकरणानर्हत्वादिति तदापाततः । सन्निकृष्टादिशब्दानामिव इदमादीनामपि संबोध्यसमर्पकत्वे बाघकाभावात् । विप्रकृष्टस्यापि बुद्धया सन्निधापितस्य बहुशः संबोधनदर्शनाच्च ॥ तथा च भट्टिः । 'हापितः क्वासि हे सुख बह्वेवं विकालाप सा ॥' इति ॥
( अन टौसोः ) इदमोsनादेशो भवति टौसोः परयोः ॥ अनेन ॥