________________
[ समासप्र०
टीकाद्वयोपेता ।
(२४३)
विग्रहः । नित्यसमासोऽयम् । अस्वपदविग्रहत्वात् । तथा चोक्तम् । अविग्रहो नित्यसमासोs - स्वपदविग्रहो वेति ॥ विग्रहश्च द्विविधः । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुर्यौकिकः । प्रयोगानर्होऽसाधुरलौकिकः ॥
]
( अतोऽमनतः ) अदन्तादव्ययीभावाद्विभक्तेरलुक् । अतं वर्जयित्वामादेशः । कुम्भस्य समीपमुपकुम्भम् ॥
(सुबोधिनी ) - अतोऽमनतः ॥ विशेषणत्वात्तदन्तविधिः अदन्तादव्ययीभावात् । अनत इति षष्ठी । न अत् अनत् तस्या अनतो विभक्तेरमादेशः स्यात् ॥
( तत्त्वदी ० ) - अतोऽमनत इति ॥ अत इत्यस्य विशेषणत्वात्तदन्तलाम इत्याशयेनादन्तादित्युक्तम् । अलुक्क्वचिदित्यतोऽलुगित्यनुवर्तते । तथा चवाक्यभेदेन व्याख्यानम् । ननु किं वाक्यभदेनोभयविधानम् अमादेशस्यैव लुग्बाधकताऽस्तु इति चेन्न । टादावमादेशाभावे लुक्प्रवृत्तेर निवार्यत्वापत्तेः । अमूविधानं तु सर्वादेशार्थम् । अनत इत्येकवचनं त्वव्ययीभावस्यैकवचनान्तत्वाभिप्रायेण । सर्ववचनान्तत्वपक्षे तु अनत इत्याद्युपलक्षणं वचनत्रयस्यापि ॥
( वा टाङयोः) अदन्तादव्ययीभावाट्टङियोरम्बा ॥ उपकुम्भम् - उपकुम्भेन वा कृतम् । उपकुम्भम् - उपकुम्भे वा निधेहि || अनतः किम् । उपकुम्भात् ॥ मत्राणां समृद्धिः सुमद्रम् । यवानानां व्यृद्धिदुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽति हिमम् । निद्रा संप्रति न युज्यते इत्यतिनिद्रम् | हरिशब्दस्य प्रकाश इति इतिहरि । विष्णोः पश्वादनुविष्णु । रूपस्य योग्यमनुरूपम् | अर्थमर्थं प्रति प्रत्यर्थम् | शक्तिमनतिक्रम्य करोति यथाशक्ति । हरेः सादृश्यं सहरि । सहादेः सादिरिति सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपत्सचक्रम् । सदृशः सख्या ससखि । क्षत्राणां संपत्तिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते सा ॥
( सुबोधिनी ) - वा टाङोः ॥ कुत्रचिद्भवति कुत्रचिन्न भवतीयं व्यवस्थितविभाषा | तस्य आश्रयणात् सुमद्रम् उन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमेवाऽम् ॥ समृद्ध्यर्थे यथा । ऋद्धेराधिक्यं समृद्धिः । मद्राणां देशविशेषाणां समृद्धिः सुमद्रम् । उत्तरपदार्थप्राधान्ये तु तत्पुरुषोऽपि भवति । समृद्धा मद्रा इति सुमद्रा ॥ वृद्धयर्थे यथा । विगता ऋद्धियृद्धिः । यवनानां व्यृद्धिरिति दुर्यवनम् । इह तेषामृद्ध्यभावे