________________
(२४२) सिद्धान्तचन्द्रिका। [समासप्र०]
(सुबोधिनी)-स नपुंसकम् । तच्छब्देन संनिहितोऽव्ययीभावः परामृश्यते । स्त्री च पुमांश्च स्त्रीपुसौ । न स्त्रीपुंसाविति नपुंसकम् स्त्रीपुंसशब्दस्य पुंसकभावः सहादित्वान्निपात्यते । नपुंसकत्वान्नपुंसकस्येति ह्रस्वविधानम् ॥
(तत्त्वदी० )-स नपुंसकमिति ॥ तच्छब्दस्य पूर्वपरामर्शित्वादव्ययीभावो गृह्यते । न स्त्री न पुमानिति नपुंसकं स्त्रीपुंसशब्दस्य पुंसकमावो निपातनात्सहादित्वाद्वा । अत्राहुः । सन्निधानादेवानुवृत्तिलाभे सिद्धे स्पष्टार्थ सग्रहणमिति ध्येयमिति । अत्रेदमवधेयम् । कार्यिणः पूर्वकथनमग्रिमस्यैव कार्यत्वविज्ञानार्थमव्ययीभावानुवृत्तावपि विपरीतार्थप्रसङ्गः स्यात् । नपुंसकलिंगमव्ययीभावसंज्ञ स्यात् इति । तन्निराकरणाय तच्छब्दस्यावश्यकत्वात् ।।
(अव्ययीभावात् ) विभक्तेलृक् । अधिस्त्रि ॥ (सुबोधिनी)-अव्ययीभावात् ॥ ननु अनव्ययमव्ययं भवतीत्यव्ययीभावः । 'अभूततद्भावे' इति चिः । ज्वलादेर्ण इति भवतेर्णप्रत्ययः॥ अथवा अनव्ययस्य अव्ययत्वेन भवनमस्मिन्नेकार्थीभावे इति अव्ययीभावः । भावे आधारे वा घञ् । एवमन्वर्थसंज्ञाविज्ञानात् अव्ययादिति लुक्प्राप्तिरस्त्येव किमर्थमेतत् । मैवम् । तत्पुरुषादिसंज्ञावदस्य अन्वर्थत्वाभावात् । तत्त्वे तु योगविभागो माऽस्तु । अव्ययीभावादतोऽमनत इत्येकयोगे एवास्तु । लुकू तु अव्ययादित्यनेन सिद्ध एव । अतो योगविभाग एव ज्ञापयत्यत्रान्वर्थसंज्ञा नास्तीति । अस्मादिभक्तेलुक् स्यात् ॥ अथ पाणिनिसूत्रम् । “अव्ययं विभक्तिसमीपसमृद्धिव्यद्धयर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु ॥" विभक्त्यादिष्वर्थेषु विद्यमानमव्ययमन्वये सति सिवन्तेन नाम्ना सह समस्यते ॥ विभक्त्यर्थेऽव्यये यथास्त्रियामित्यधिस्त्रि । लौकिकविग्रहवाक्यमिदम् । सप्तम्यर्थस्य द्योतकोऽधिः । स्त्री डि अधि इत्यलौकिकविग्रहवाक्यम् । अत्र निपातेनोक्तेऽप्यधिकरणे समासविधानसामर्थ्यात् सप्तमी । अन्यैस्तु स्त्रियमधिकृत्येति व्याख्यातं तदसत् । अधिहरीत्यत्राधिकृतेत्यर्थस्याप्रतीतः। क्रमादमुं नारद इत्यबोधि स इत्यादी समासो न । इतिशब्दस्य प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात् ।एवं च विभक्तिशब्दः सप्तम्यां पर्यवस्यति ॥ समीपार्थेऽव्यये यथा। कुम्भस्य समीपमिति उपकुम्भम् ॥ समया ग्रामम् । निकषा लङ्काम् । आरादनादित्यत्र तु नाव्ययीभावो विनादियोगे द्वितीयेति ऋतेआदियोगे पञ्चमीति च विधानसामर्थ्यात् ॥
( तत्त्वदी० )-अव्ययीभावादिति ॥ विभज्यते विविच्य बोध्यते कर्तृकर्माद्यर्थोऽनयेति विभक्तिः । योगरूढत्वात्कृत्यादिषु नातिव्याप्तिः । स्यादेः सिप इति वा वक्तुमुचितम् । कुम्भकार इत्यत्र तु धातोरेव प्रत्ययविधानान्न त्यादेर्लुक् ॥ अधिस्त्रि इति ॥ स्त्रियाम् इतीति