________________
[ समासप्र० ]
टीकाद्वयोपेता ।
( २४१ )
योगं विभज्य कतिपयतिङन्तोत्तरपदः समासः स च च्छन्दस्येव । आख्यातस्याख्यातेन क्रियासातत्यादौ च समास इति चेत्तदा तत्र तत्र तेनैव नियमेन विधानात् अन्यत्र प्राप्तिर्वार किं तन्निराकरणाय पदान्तरेणेति । यत्तु अथार्थविभक्तिविशिष्टानां पदानां समासो निरूप्यते इत्युक्तं प्राचा तत्रार्थवदिति व्यर्थम् । विभक्तिविशिष्टत्वेनेव तल्लाभात् । किंच विभक्तिविशिष्टानामित्यपि व्यर्थं पदग्रहणेनैव तदर्थप्रतीतेः । विभक्त्यन्तं पदमित्यनेन हि विभक्तिविशिष्ट - स्यैव पदसंज्ञाविधानात् ॥
( पूर्वेऽव्ययेऽव्ययीभावः) अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति ॥
( सुबोधिनी ) - पूर्वेऽव्ययेऽव्ययीभावः ॥ अव्यये पूर्वपदे सति पदयोर्योऽन्वय एकार्थीभावलक्षणः सोऽव्ययीभावसंज्ञकः समासोऽस्ति || पूर्वग्रहणादेवाव्ययस्य पूर्वनिपातोऽव्ययीभावे । अन्यथाऽव्यये इत्येव सिद्धे किं तेन ॥
( तत्त्वदी ० ) - पूर्वेऽव्ययेऽव्ययीभाव इति ॥ पूर्वे इत्यस्य ग्रहणसामर्थ्यादव्ययस्यपूर्वनिपातः । विभक्त्याद्यर्थेषु वर्तमाने एवाव्यये पूर्वे सतीति बोध्यम् । अन्यथा ऽस्तिधन इत्यादावतिव्याप्त्यापत्तेः ॥
( समासप्रत्यययोः ) समासे वर्तमानाया विभक्तेः प्रत्यये परे लुग्भवति ॥ नामत्वात्स्यादिः ||
( सुबोधिनी ) - समासप्रत्यययोः ॥ प्रतीयते कर्तृकर्माद्यर्थोऽनेनेति प्रत्ययः । इण गतावस्मात् स्वराद् इत्यप्रत्ययः ॥ अथवा अय गतावस्मात्पचाद्यप्रत्यये प्रत्ययते प्रत्याययत्यर्थमिति प्रत्ययः । अन्तर्भावितञ्यर्थः ॥ समासश्च प्रत्ययश्च समासप्रत्ययौ तयोः । भावे सप्तमीयम् ॥ समासे सति प्रत्यये च सति वर्तमानायाः स्यादिरूपाया विभक्तेलुक् स्यात् ॥ ततः कृत्तद्विवसमासाश्चेति नामसंज्ञायां स्याद्युत्पत्तिर्भवतीत्यर्थः॥
( तत्त्वदी ० ) - समासप्रत्यययोरिति । अत्रान्वयाभावेऽपि निपातनाद्वन्दः समासः । यद्वा भावे सप्तमीयम् । तथा च समासे सति प्रत्यये च सतीति बोध्यम् । प्रतीयते कर्त्राद्यने - नेति प्रत्ययः । इणू गतौ । स्वरादः ॥ ननूक्तार्थानामप्रयोग इति न्यायेनैव विभक्तेरप्रयोगो भविष्यति । चशब्दादेरिव वृत्तौ तदर्थस्यान्तर्भावात् । परार्थाभिधानस्यैव वृत्तिपदार्थत्वात्समासस्य च वृत्त्यन्तर्भावात् इति किमनेनेति चेत्सत्यम् । राजाश्व इत्यादौ प्रत्ययलक्षणेन पदकार्यार्थं स्वाभाविक्या अपि निवृत्तेः सूत्रेण विधानात् ॥
( स नपुंसकम् ) अव्ययीभावो नपुंसकलिंगो भवति ॥ नपुंसकस्येति ह्रस्वः ॥
१६