________________
( २४० )
सिद्धान्तचन्द्रिका |
[ समासप्र०
]
मित्यर्थः ॥ समस्यते इति वा समासः । संज्ञायामकर्तरि चेति कर्मणि घञ् ॥ अनु अन्तर्मध्ये यन्ति पदार्था यस्मिन्नर्थे इत्यन्वयः । इण् गतावस्मात् स्वराद इत्यप्रत्ययः॥ अनु अन्तः पदार्थानामयनं गमनमिति वाऽऽन्वयः । एकार्थीभावः ॥ अनु सहान्येन यन्ति संवन्धं लभन्ते पदानि यस्मिन्निति वाऽन्वयः । स्वराद इत्याधारेऽप्रत्ययः ॥ अनु सहान्येन ईयन्ते संबन्धं प्राप्यन्ते पदान्यस्मिन्निति वाऽन्वयः ॥ सोऽन्वयो द्विधा व्यपेक्षालक्षणः एकार्थीभावलक्षणश्चेति । तत्र व्यपेक्षालक्षणे विग्रहवाक्यमेव । एकाथभावलक्षणे तु वृत्तिरेव । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षासंनिधियोग्यत्वेषु सत्सु यः परस्परसंबन्धः स व्यपक्षालक्षणः । विशिष्टकार्यरूपः एकार्थीभावलक्षणः ॥ विशेषेण गृह्यते ज्ञायते वृत्त्यर्थोऽनेनेति विग्रहः । विग्रहस्य वाक्यं विग्रहवाक्यम् । विग्रहवाक्यमपि द्विधा । लौकिकमलौकिकं चेति । प्रयोगा है परिनिष्ठितं साधु लौकिकम् । यथा । राज्ञः पुरुष इति । व्यपेक्षालक्षणः संबन्धो ह्यत्रैव ॥ अपरिनिष्ठितं प्रयोगानर्हमसाधु अलौकिकम् । यथा राजन् अस् पुरुष स् इति । समाससंज्ञादिकं चास्मिन्नेव प्रवर्तते इति ॥ परार्थाभिधानं वृत्तिः । परः स्वार्थादन्यो योऽर्थः स परार्थः । अथवा स्वस्मात् परस्य शब्दस्य योऽर्थः स परार्थः । तस्याभिधानं प्रतिपादनं परार्थाभिधानं सा वृत्तिः । कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपा इति पञ्च वृत्तयः । वृत्तिरवि द्विधा । जहत्स्वार्थाऽजहत्स्वार्था चेति । जहति स्वार्थ पदानि यस्यां सा जहत्स्वार्था । उक्तं च । “वृत्तौ वर्तिपदानामानर्थक्यं पदे वर्णवत्" इति । यथा वृषभ इत्यत्र वृषशब्दः सुकृतादेवचकः भशब्दस्तु नक्षत्राणां वाचकः वृषभपदं तु बलीवर्दे शक्तम् । शक्ताववयवानामानर्थक्यम् || एवं कवलशब्दे । को वाद्यादेवाचिकः । वो वरुणवाचकः । लः पृथिवीवाचकः । कवलपदं ग्रासे शक्तम् । शक्तौ तेषामानर्थक्यम् । तथा राजपुरुषशब्दयोः पृथक्शक्तयोरापे राजसंबन्धिनि पुरुषे शक्तिः तत्र राजपुरुपशब्दयोरानर्थक्यम् तदन्याऽजहत्स्वार्था ||
( तत्त्वदी ० ) - समासश्चान्वये नाम्नामिति ॥ समानि एकीभूतानि पदानि अर्था वा आसतेऽस्मिन्स समासः । आधारे घञ् ॥ अनु अन्तर्यन्ति पदार्था यस्मिन्नर्थे सोऽन्वयः । आधारे स्वरादः नाम्नामिति बहुवचनाद्वयोर्बहूनां च समासः । अन्वयो व्यपेक्षा परस्परापेक्षेति यावत् ॥ चकारस्यानुक्तसमुच्चयार्थत्वादन्यवृत्तिलाभोऽपीत्याह - चकारादिति ॥ धातुसंज्ञाप्रयोजकेति ॥ धातुसंज्ञां प्रयोजयन्तीति ते । येषु सत्सु संज्ञा भवतीति भावः ते च यङादयः । तेऽप्यन्वये सत्येव भवन्तीति बोध्यम् । यद्यपि नामसंज्ञा विभक्तिरहितस्यैव तथाप्यत्र सविभक्ति - कानामेव समासः समासप्रत्यययोरिति लुग्विधानात् ज्ञापकात् । अत्राहुः । स्पष्टार्थपदाना मिति तु नोक्तम् । पचति भवति पश्यति धावतीत्यादावन्वय सत्च्त्वेन समासप्रसङ्गात् । सति च तस्मिन् यथेष्टं प्रयोगो न स्यात् इति ॥ अत्रेदं वक्तव्यम् । नाम्नामित्युपादानात् आख्यातनिराकरणमिति त्वदभिमतम् । एवं च पर्यभूषत पचतभृज्जतेत्यादौ कथं समासः । अथ 'नाम्नाम्' इति