________________
( २४४ )
सिद्धान्तचन्द्रिका |
[ समासप्र० ]
समासः ॥ अर्थाभावे यथा । मक्षिकाणामभाव इति निर्मक्षिकम् । संसर्गाभावेऽयं समासः ॥ अत्यये यथा । हिमस्यात्ययो ध्वंस इति अतिहिमम् | असंप्रत्यर्थे यथा । संप्रतीत्यव्ययमिदानीमित्यर्थे । युजिक्रियान्तर्भावेण नञ्समासः सौत्रो बोध्यः । निद्रा संप्रति न युज्यते इत्यतिनिद्रम् | शब्दप्रादुर्भावे यथा । हरिशब्दस्य प्रकाश, इति इतिहरि । षष्ठ्यन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः । विष्णोः पश्चादिति अनुविष्णु । पश्चाच्छन्दस्य तु नायमव्ययीभावो भवति । ततः पश्चात् स्रंसते इति भाष्यप्रयोगात् । सति चात्राव्ययीभावे पश्चाच्छब्दस्य पूर्वनिपातः स्यादित्यर्थः ॥ यथार्थे यथा । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । तत्रानुरूपता योग्यता । रूपस्य योग्यमिति अनुरूपम् ॥ पदार्थानां व्याप्तुमिच्छा वीप्सा । अर्थमर्थं प्रतीति प्रत्यर्थम् । समासे वीप्साया अन्तर्भावान्न द्विः । वीप्सार्थकप्रतियोगे द्वितीयाविधानात् वाक्यमपि ॥ पदार्थानतिक्रमः पदार्थानतिवृत्तिः । शक्तिमनतिक्रम्येति यथाशक्ति ॥ हरेः सादृश्यमिति वक्ष्यमाणेन सहादेः सादिरित्यनेन सहस्य सादेशः । सहारे || आनुपूर्व्यार्थे यथा । अनुपूर्वस्य भाव इत्यानुपूर्व्यम् । भावे तत्वयण इति यण् । ज्येष्ठस्यानुपूर्व्येणेति अनुज्येष्ठम् ॥ यौगपद्ये यथा । चक्रेण युगपत्समकालमिति सहादेरित्यनेन सहस्य सः । सचक्रम् ॥ सादृश्ये यथा । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येतदर्थम् । सदृशः सख्या इति सहादेरित्यनेन सहस्य सः । ससखि || संपत्तौ यथा । अनुरूप आत्मभावः संपत्तिः । क्षत्राणां संपत्तिरिति सहादेरित्यनेन सहस्य सः । सक्षत्रम् ॥ साकल्ये यथा । तृणमप्यपरित्यज्येति सहादेरिति सहस्य सः । सतृणम् । साकल्येनात्ति इत्यर्थः ॥ अन्तवचने यथा । उच्यते तद्वचनम् अन्तस्य वचनम् अन्तवचनं तस्मिन् । अग्निशब्दोऽग्निप्रतिपादकग्रन्थे वर्तते । अस्वपदविग्रहो नित्यसमासोऽयम् । अग्निग्रन्थपर्यन्तमिति सानि अधीते ॥
।
1
( तत्त्वदी ० ) - वाटाडयोरिति || अव्ययीभावादिति किम् । कृष्णश्रितेन । अदन्तात्किम् । अधिस्त्रि । वेत्यस्य व्यवस्थितत्वाश्रयणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । उपकुम्भमिति ॥ कुम्भस्य समीपे इत्यर्थः । व्यृद्धिरिति । विगता ऋद्धिः व्यृद्धिः॥ अत्यय इति || अत्ययो ध्वंसः ॥ निद्रेत्यादि । असंप्रत्यर्थेनातिशब्देनान्ययीभावः । तत्र असंप्रतीत्यस्य संप्रत्यभाव इत्यर्थमुक्तवतोपभोग्यवस्तुनो यो वर्तमानः कालस्तस्यैव निषेधः क्रियत इत्युक्तं केनचित्तन्न । नहि भूतले घटो नास्तीत्यनेन हि भूतल निषेधः केनचिद्दूरी क्रियते ॥ ( यथाऽसादृश्ये ॥ ) यथाशब्दः सादृश्ये न समस्यते ॥ यथा हरि - स्तथा हरः ॥