________________
[समासप०] टीकाद्वयोपेता।
(२४५) (सुबोधिनी)-यथाऽसादृश्ये ॥ असादृश्ये एव ययाशब्दः समस्यते । सादृश्ये इति यथार्थे इति वा प्राप्तं निषिध्यते । यथा हरिस्तथा हरः । यथाशब्दो हरेरुपमानत्वं द्योतयति ॥
(तत्त्वदी०)-यथाऽसादृश्य इति असादृश्य इति छेदः । यथाशब्दस्याव्ययत्वादेव सिद्धे सूत्रारम्भसामर्थ्यात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। योग्यता अनुरूपता । वीप्सापदार्थानां व्याप्तुमिच्छा । पदार्थानतिवृत्तिः पदार्थानतिक्रमः । उदाहरणानि तु पूर्वमेवोक्तानि ॥
(अवधारणार्थ यावति च ) अवधारणार्थे यावच्छब्दे प्रयुज्यमाने योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति ॥ यावन्तः श्लोकाः तावन्तो ऽच्युतप्रणामा यावच्छोकम् ॥ . (सुबोधिनी)-अवधारणार्थे यावति च ॥ यावच्छब्दस्याव्ययत्वादेव सिद्धे नियमार्थमिदम् । अवधारणे एव यावदव्ययं समस्यते नान्यस्मिन्नथे । "यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे” इत्यमरः ॥ यत्परिमाणं येषां ते यावन्तः । एतत्किंयत्तद्भय इति वतुः। यत्तदेतदामित्यात्वम् । तत्सरिमाणं येषां ते तावन्तः । तद्धितान्तेन विग्रहः। समासस्त्वव्ययेनैव । अस्वपदविग्रहोऽयम् ॥ अवधारणे किम् । यावदत्तं तावद् भुक्तम् । नावधारयामि कियन्मया भुक्तमिति ॥
(तत्त्वदी० )-अवाधारणार्थे यावति चेति ॥ निश्चयार्थे यावच्छब्द इत्यर्थः ॥ यावच्छोकमिति ॥ तद्धितान्तेन विग्रहः । समासस्त्वव्ययेनेत्यस्वपदविग्रहोऽयम् । तथा च । यावच्छब्दस्याव्यत्वादेव सिद्ध नियमार्थमिदमवधारणे एव यावदव्ययं समस्यते नान्यस्मिनिति । "यावत्तावच्च साकल्येऽवधौ मानेवधारणे " इत्यनेकार्थत्वान्नियम उपपद्यते ॥ अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । नावधारयामि कियन्मया भुक्तमिति ॥
(कचिदनव्ययपूर्वपदोऽप्यव्ययीभावः) उन्मत्ता गंगा यस्मिन् देशे इत्युन्मत्तगंगम् । शाकस्य लेशः शाकप्रति । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकया विपरीतं वृत्तं शलाकापरि एकपरि ॥
(सुबोधिनी)-वचिदनव्ययपूर्वपदोऽप्यव्ययीभावः॥ अन्यपदार्थे स्यायन्तं नदीवाचिभिः सह नित्यं समस्यते संज्ञायाम् । उन्मत्ता गङ्गा यस्मिन् । पुंवदेति पुंवद्भावः । तत उन्मत्तगङ्गं देशः । बहुव्रीह्यर्थे अव्ययीभावः । नित्यसमासोऽयम् ॥ लेशार्थेन प्रतिना सह स्याद्यन्तं नित्यं समस्यते । " लवलेशकणाणवः "